________________
३४२
रघुवंशमहाकाव्ये परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥' इति महाभारते । पुराणमनादिमजरं निर्विकारत्वादक्षरं विदुः । चिरंतनं न जीर्यत इति विरोधालंकारः । उक्तं च-- 'आभासत्वे विरोधस्य विरोधालंकृतिर्मता' इति । विरोधेन चालौकिकमहिमत्वं व्यज्यते ॥१९॥
अन्वयः- “हे देव !' त्वां हृदयस्थं "तथापि" अनासन्नम् , अामं 'तथापि' तपस्विनम् , दयालु 'तथापि' अनघस्पृष्टम् पुराणं 'तथापि' अजरम् विदुः ( ऋषय इति शेषः )।
व्याख्या--हृदये-मानसे तिष्ठतीति हृदयस्थः तं हृदयस्थम् = अन्तर्यामित्वेन सर्वदा संनिहितम् तथापि न प्रासन्नमिति अनासन्नम् अगम्यरूपतया असंनिकृष्टम् च त्वां विदुः, समीपस्थस्यापि विप्रकृष्टत्वमिति विरोधः । तथा न कामः-अभिलाषः अस्य स तम् अकाम-निष्कामम् परिपूर्णत्वात् निष्कामत्वादित्यर्थः तथापि तपोऽस्या.. स्तीति तपस्वी तं तपस्विनम् = तपस्यायुक्तम्, निस्पृहः तपः किमर्थं कुरुते इति विरोधः, तथापि ऋषिरूपेण तपस्तप्यते । दयास्यास्तीति दयालुस्तं दयालु = परदुःखनाशनपरं तथापि अघं दुःखं, अघेन स्पृष्टः अघस्पृष्टः, न अघस्पृष्टः इति अनघस्पृष्टः तम् अनघस्पृष्टम् नित्यानन्दस्वरूपत्वेन दुःखरहितमित्यर्थः । दुःखरहितो दुःखवारणकामः इति विरोधः । पुरा-प्रतीतानागतौ अर्थो अनति पुराणस्तं पुराणम्= अनादिम् तथापि अजरम्= अक्षरं निर्विकारत्वात् विदुः जानन्ति स्म, ऋषय इति शेषः ।
समासः-- अधेन स्पृष्टः अघस्पृष्टः, न अघस्पृष्टस्तं अनघस्पृष्टम् ।।
हिन्दी-हे देव ! तुमको हृदय में रहते हुए भी दूर, निष्काम होते हुए भी नर-नारायण रूप से तपस्या करने वाले, दयावान् होते हुए भी दुःख से दूर, पुरातनपुरुष होने पर भी जरा (बुढ़ापा ) से रहित, ऋषि लोग जानते हैं । इस श्लोक में विरोधालंकार है अर्थात् ऊपर से विरोध सा है । और विरोध से भगवान् की अलौकिक महिमा व्यक्त होती है ।।१९।।
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ।।२०।। संज!-सर्वज्ञ इति । त्वं सर्व जानातीति सर्वज्ञः । 'इगुपध- ( पा. ३।११. १३५) इति कप्रत्ययः। अविज्ञातः । न केनापि विज्ञात इत्यर्थः । त्वं सर्वस्य