________________
३२०
रघुवंशमहाकाव्ये
राज्ञोदहारयतामुद्धारयामासतुः । स शिशुः परासुर्गतप्राणोऽभूत् । अथ वृद्धो हस्तार्पितैर्नयनवारिभिरेव शापदानस्य जलपूर्वकत्वात्तैरेव भूमिपति शशाप ॥७॥
अन्वयः-तौ दम्पती बहु विलप्य शिशोः उरस्तः निखातं शल्यं प्रहर्ता उदहारयताम् , सः परासुः अभूत् , अथ वृद्धः हस्तार्पितैः नयनवारिभिः एव भूमिपतिं शशाप ।
व्याख्या-तौ-पूर्वोक्तौ, अन्धौ जाया च पतिश्चेति दम्पती-जम्पती, भार्यापती बहु भूरि अत्यधिकमित्यर्थः विलप्य परिदेव्य, विलापं कृत्वेत्यर्थः । शिशोः श्रवणकुमारस्य उरसः इति उरस्तः वक्षसः निखातं-वुप्तम् शल्यं बाणं प्रहरतीति प्रहर्ता तेन प्रहा-राज्ञा दशरथेन उदहारयताम्-उद्धारयामासतुः= निष्कासयामासतुरित्यर्थः । सः शिशुः परागताः नष्टाः असवः-प्राणाः यस्मात् स परासुः मृतः अभूत् अभवत् अथ-शिशोः मरणानन्तरम् वृद्धः = स्थविरहस्ताभ्यां कराभ्याम् अर्पितानि-दत्तानि तैः हस्तार्पितः नयनयोः नेत्रयोः वारीरिण-जलानि तैः नयनवारिभिः एवान्ययोगव्यावर्तने भूमेः-पृथिव्याः पतिः-स्वामी, भूमिपतिस्तं भूमिपति-राजानं शशाप = अशपत् वक्ष्यमाणं शापं दत्तवानित्यर्थः ।
समासः-परागताः असवो यस्मात् स परासुः। जाया च पतिश्च दम्पती। हस्ताभ्याम् अर्पितानि तैः हस्तार्पितः । नयनयोः वारीरिण तैः नयनवारिभिः । भूमेः पतिस्तं भूमिपतिम् ।
हिन्दी-उन दोनों अन्धे पति पत्नी ने बहुत विलाप कर के (रो पीटकर) बच्चे की छाती से गड़े हुए बाण को मारनेवाले राजा से निकलवा दिया और (बारण के निकलते ही ) वह बालक मर गया। बच्चे के मर जाने पर वृद्धतपस्वी ने अपने हाथ में लिये हुवे अाँसुओं के जल से ही राजा को शाप दे दिया ॥७८॥ दिष्टान्त माप्स्यति भवानपि पुत्रशोका
दन्त्ये वयस्यहमिवेति तमुक्तवन्तम् । आक्रान्तपूर्वमिव मुक्तविषं भुजगं
प्रोवाच कोसलपतिः प्रथमापगद्धः ॥७९।। संजी०-दिष्टान्तमिति । हे राजन् ! भवानप्यन्त्ये वयस्यहमिव पुत्रशोकादिष्टान्तं कालावसानम् । मरणमित्यर्थः । 'दिष्टः काले च देवे स्याद्दिष्टम् । इति विश्वः ।