________________
रघुवंशमहाकाव्ये परः । वीर्येण उदग्रस्तस्मिन् वीर्योदने । राजा इति शब्दः राजशब्दस्तस्मिन् राजशब्दे ।
हिन्दी-झाड़ियों में छिपकर बैठे हुए सिंहों को मारने के इच्छुक राजा ने बिजली की कड़क के समान भयंकर अपने धनुष की टंकार से उनको भड़का दिया। मानो सिंहों के पराक्रम से उन्नत ( ऊंचा ) मगराज-शब्द में राजा को ईर्ष्या हो गई थी ॥६॥ तान्हत्वा गजकुलबद्धतीववैरान्काकुत्थः कुटिलनखाग्रलग्नमुक्तान् । आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैग्मन्न ।।५।।
संजी०-तानिति । काकुत्स्थो दशरथः । गजकुलेषु बद्धं तीवं वैरं यस्तान् । कुटिलेषु नखाग्रेषु लग्ना मुक्ता गजकुम्भमौक्तिकानि येषां तन्सिहान्हत्वा प्रात्मानं रणेषु कृतकर्मणां कृतोपकाराणां गजानामानृण्यमनृणत्वं मार्गणैः शरैः। 'मार्गणो याचके शरे' इति विश्वः । गतं प्राप्तवन्तमिवामस्त मेने ॥६५॥
अन्वयः-काकुत्स्थः गजकुलबद्धतीववैरान् कुटिलनखाग्रलग्नमुक्तान् तान् हत्वा, श्रात्मानं रणकृतकर्मणां गजानाम आनृण्यं मार्गणैः गतम् इव अमंस्त।
व्याख्या-ककुत्-वृषांगः । ककुदि ( श्रेष्ठे ) तिष्ठतीति ककुत्स्थःकश्चित् राजा। ककुत्स्थस्यापत्यं पुमान् काकुत्स्थः राजा दशरथः, गजानां हस्तिनां कुलानि-समूहास्तेषु बढ़-कीलितं तीव्र गाढम् अतिशयितमित्यर्थः वैरं-विद्वषः यस्ते तान् गजकुलबद्धतीववैरान्, नखाना=कररुहाणाम् अग्राणि नखा प्राणि, कुटिलानि प्राभुग्नानि च तानि नखाग्राणि इति कुटिलनखाग्राणि तेषु लग्नाः सक्ताः मुक्ताः गजकुम्भमौक्तिकानि येषां ते तान्-कुटिलनखानलग्नमुक्तान् तान्-सिंहान् हत्वा-निहत्य आत्मानं स्वं रणेषु-युद्धेषु कृतानि विहितानि कर्माणि-उपकाराः यैस्ते तेषां रणकृतकर्मणां गजानां-हस्तिनां न ऋणं यस्यासौ अनृणः । अनृरणस्य भावः कम वा पानृण्यं-अनृरणत्वं-ऋणराहित्यं मागणैः शरैः बाणैः गतं-प्राप्तम् इव-यथा अमंस्त-मेने।
समासः- गजानां कुलानि गजकुलानि तेषु बद्धं तीवं वैरंयैस्ते तान् गजकूलबद्धतीववैरान् । कुटिलानि च तानि नखानामग्राणि इति कुटिलनखाग्राणि तेषु लग्नाः मुक्ता यैस्ते तान् कुटिलनखाग्रलग्नमुक्तान् । रणेषु कृतानि कर्माणि यैस्ते तेषां रणकृतकर्मणाम् ।