________________
नवमः सर्गः
३०१
समासः-उत्तरश्च तत् कायमिति उत्तरकायम्, अवनतम् उत्तरकायं यस्य स तम् अवनतोत्तरकायम् । उद्धृताः सटाः यस्ते उद्धृतसटाः। जघनानाम् आश्रयास्तेषु जघनाश्रयेषु ।
हिन्दी--घोड़े पर से ( घोड़े पर बैठे हुए ही ) जरा गरदन को मुकाए हुवे तथा मारने वाले राजा को अपनी गरदन के बालों को जैसे ही प्रतिघात ( उल्टा मारने ) करने की इच्छा की तभी राजा के बाणों से वे सहसा पेड़ के अवलम्बन भूत वृक्षों में बीन्धे गये, अपने को न जान सके ॥६०॥ तेनाभिघातरभसस्य विकृष्य पत्री
वन्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख
स्तं पातयां प्रथममास पपात पश्चात् ॥६१॥
संजी०-तेनेति । अभिघाते रभस औत्सुक्यं यस्य तस्य । अभिहन्तुमुद्यतस्येत्यर्थः । वन्यस्य वने भवस्य महिषस्य नेत्रविवरे नेत्रमध्ये तेन नृपेण विकृष्याकृष्य मुक्तः पत्री शरो विग्रहं महिषदेहं निर्भिद्य विदार्य । शोणितलिप्तो न भवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन् । तं महिषं प्रथमं पातयामास । स्वयं पश्चात्पपात । 'कृञ्चानुप्रयुज्यते लिटि' (पा. ३।१।४० ) इत्यत्रानुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् 'पातयां प्रथममास' इत्यपप्रयोग इति पाणिनीयाः । यथाह वार्तिककारः-'विपर्यासनिवृत्त्यथं व्यवहितनिवृत्त्यर्थं च' इति ॥ ६१॥
अन्वयः-अभिघातरभसस्य वन्यस्य महिषस्य नेत्रविवरे तेन विकृष्य मुक्तः पत्री विग्रहं निर्भिद्य अशोणितलिप्तपुंखः सन् तं प्रथमं पातयामास स्वयं पश्चात् पपात ।
व्याख्या-अभिघाते-प्रतिघाते रभसः उत्सुकता यस्य स तस्य अभिघातरभसस्य अभिहन्तुं तत्परस्येत्यर्थः । वने भवः वन्यस्तस्य वन्यस्य आरण्यकस्य मंहते वर्धते इति महिषस्तस्य महिषस्य-सरिभस्य नेत्रस्य= चक्षुषः विवरं-छिद्रं तस्मिन् नेत्रविवरे तेन राजा दशरथेन विकृष्य-आकृष्य