________________
नवमः सर्गः
२९६ नेत्रों को देखकर राजा को अपनी प्रियतमाओं की तिरछी चितवन का स्मरण हो पाया, इससे दयार्द्र होकर उन्होंने मृग मारना छोड़ दिया ॥५॥ उत्तम्थुषः सपदि पल्वलपङ्कमध्या
__नमुस्ताप्ररोहकवलावयवानुकाणम् । जग्राह स द्रुतवराहकुलम्य मार्ग
सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ।। ।।५९।। संजी०-उत्तस्थुष इति । स नृपः मुस्ताप्ररोहाणां मुस्ताङकुराणां कवला ग्रासाः तेषामवयवः श्रमविवृतमुखभ्रंशिभिः शकलरनुकीरणं व्याप्तम् । आयताभिर्दीर्घाभिरापदपङ्क्तिभिः सुव्यक्तम् । सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुलस्य पलायितवराहयूथस्य मार्ग जग्राहानुससार ।।५९॥
अन्वयः--सः मुस्ताप्ररोहकवलावयवानुकीर्णम् आयताभिः आद्रपदपंक्तिभिः सुव्यक्तम् सपदि पल्वलपंकमध्यात् उत्तस्थुषः दुतवराहकुलस्य मार्ग जग्राह ।
व्याख्या-सः राजा दशदथः, मुस्तयतीति मुस्ता, मुस्तायाः कुरुविन्दस्य प्ररोहाः= अंकुरा इति मुस्ताप्ररोहास्तेषां कवला: ग्रासाः, तेषाम् अवयवाः शकलानि =खण्डानि इति मुस्ताप्ररोहकवलावयवास्तैः अनुकीर्णः व्याप्तस्तं मुस्ताप्ररोहकवलावयवानुकीर्णम् । आयताभिः-दीर्घाभिः, पदाना=चरणानां पंक्तयः श्रेण्यः, इति पदपंक्तयः । आर्द्राः क्लिन्नाश्च ताः पदपंक्तयस्ताभिः आर्द्रपदपंक्तिभिः सुव्यक्तं सुस्पष्टं सपदि = तत्क्षणे पल्वलस्य =अल्पजलाशयस्य पंकः = कर्दमस्तस्य मध्यः = अभ्यन्तरं तस्मात् पल्वलपंकमध्यात् । उत्तस्थुषः उत्थितस्य-निर्गतस्येत्यर्थः वरं श्रेष्ठम् आघ्नन्तीति वराहाः । वराहाणां-सूकराणां कुलं-समूहः इति वराहकुलम्, द्रुतं-पलायिञ्च तत् वराहकुलमिति द्रुतवराहकुलं तस्य द्रुतवराहकुलस्य मार्ग= पन्थानं जग्राह-अनुजगाम ।
समासः-पल्वलस्य पंक: पल्वलपंकस्तस्य मध्यस्तस्मात् पल्वलपंकमध्यात् । मुस्तानां प्ररोहास्तेषां · कवलास्तेषामवयवास्तैः अनुकीर्णस्तम् मुस्ताप्ररोहकवलावयवानुकीर्णम् । वराहाणां कुलमिति वराहकुलम् द्रुतं च तत् वराहकुलमिति द्रुतवराहकुलम्, तस्य द्रुतवराहकुलस्य । पदानां पंक्तयः पदपंक्तयः पाश्च ताः पदपंक्तयस्ताभिः आर्द्रपदपंक्तिभिः ।