________________
२९६
रघुवंशमहाकाव्ये प्रार्थना कथ्यते बुधैरि"ति विश्वकोषः । अत एव विशीर्णा=विछिन्ना=इतस्ततःपरिगतेत्यर्थः पंक्तिः संघीभावः-समूहीभवनं यस्य तत् विशीर्णपंक्ति तत्-मृगयूथम् कर्तृपदमिदम् । पार्दै:-क्लिन्नः भयादित्यर्थः। दृष्टीनां नेत्राणां पाता:-पतनानि प्रक्षेपा इत्यर्थः । इति दृष्टिपाताः, आकुलाः चकिताः ये दृष्टिपातास्तैः आकुलदृष्टिपातः भयेन चकितैरित्यर्थः उत्पलानाम्-इन्दीवराणां-नीलकमलानामित्यर्थः दलानि-पत्राणि इति उत्पलदलानि तेषां प्रकरा:-समूहाः, इति उत्पलदलप्रकराः वातेन-पवनेन ईरिताः कम्पिताः ये उत्पलदलप्रकरास्तैः वातेरितोत्पलदलप्रकरैः, इवव्यथा वनम् अरण्यं श्यामीचकार-कृष्णीकृतवत् ।
समासः--जवनश्चासौ वाजी जवनवाजी, जवनवाजिनं गतस्तेन जवनवाजिगतेन । तूण्याः मुख तूणीमुखं, तूणीमुखात् उद्धृतः शरो येन स तेन तूणीमुखोधृतशरेण । विशीर्णा पंक्तिः यस्य तत् विशीर्णपंक्ति। आकुलाः ये दृष्टिपातास्तैः आकुलदृष्टिपातैः । उत्पलानां दलानि, उत्पलदलानि तेषां प्रकराः, इति उत्पलदलप्रकराः, वातेन ईरिताः ये उत्पलदलप्रकारास्तैः बातेरितोत्पलदलप्रकरैः।।
हिन्दी-अपने तीव्रगामी घोड़े पर चढ़े हुए, तथा तरकश से बाण को निकालकर राजा ने ज्योंही उस मुण्ड का पीछा किया, तो तितर-बितर हए उस मृगझुण्ड ने भय के कारण आँसुओं से भीगी तथा घबराई हुई अपनी चंचल आँखों से उस वन को ऐसा श्याम ( काला ) कर दिया, मानों वायु के झोकों से कम्पाये नीले कमलों की पंखुड़ियों से भरा हो ॥५६॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रक्ष्य स्थितां सहचरीं व्यवधाय देहम् । . पाकर्णकृष्टमपि कामितया स धन्वी ____ बाणं कृपामृदुमनाः प्रतिसंजहारं ॥५७॥
संजी०-लक्ष्यीकृतेति । हरिरिन्द्रो विष्णुर्वा तस्येव प्रभावः सामर्थ्य यस्य स तथोक्तः । धन्वी धनुष्मान् स नृपः । लक्ष्यीकृतस्य वेद्धमिष्टस्य हरिणस्य स्वप्रेयसो देहं व्यवधायानुरागादन्तर्धाय स्थिताम् । सह चरतीति सहचरी। पचादिषु चरतेष्टित्करणान्डीप् । यथाह वामनः-'अनुचरीति चरेष्टित्त्वात्' इति । तां सहचरी