________________
२६०
रघुवंशमहाकाव्ये व्याख्या-मल्यते धार्यते या सा माला, मां लक्ष्मी श्रियं लाति इति वा माला । वनस्य-वनपुष्पस्य माला-स्रक वनमाला तया वनमालया। ग्रथितःबद्धः मौलिः = शीषं यस्य स ग्रथितमौलिः । तनुः छाद्यतेऽनेनेति तनुच्छदः । तरूणां= वृक्षाणां पलाशानि–पत्राणि, तैः सवर्ण: समानः तनुच्छदः = कवचं यस्य स तरु. पलाशसवर्णतनुच्छदः । तुरगस्य अश्वस्य वल्गनम् वल्गितम्, तेन चञ्चले तरले कुण्डले कर्णभूषणे यस्य स तुरगवल्गनचञ्चलकुण्डलः । असौ-राजा दशरथः । रुरुभिः मृगविशेषैः चेष्टिताः-सेविताः, चरिताः भूमयः मह्यः वनस्थानानीत्यर्थः, इति रुरुचेष्टितभूमयस्तासु विरुरुचे-विशेषेण दिद्युते, शुशुभे इत्यर्थः ।
समासः-वनस्य माला, वनमाला तया वनमालया। ग्रथितः मौलिः यस्य स ग्रथितमौलिः । तरूणां पलाशैः सवर्णः तनुच्छदो यस्य स तरुपलाशवर्णतनुच्छदः । तुरगस्य वल्गनेन चञ्चले कुण्डले यस्य स तथोक्तः । रुरुभिः चेष्टिताः भूमयस्तासु ररुचेष्टितभूमिषु ।
हिन्दो-वन के फूलों की माला से अपने केशों को बांधे हए, तथा वृक्षों के पत्तों के समान ( हरे ) रंग का कवच पहने हुए, और घोड़े की चाल ( गति ) के कारण जिसके कुण्डल हिल रहे हैं ऐसे राजा दशरथ रुरुजाति के मृगों के घुमने की भूमि में शोभा देने लगे, जहाँ हिरन-मृग बहुत रहते थे ॥५१॥
तनुलताविनिवेशिविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः । ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥५॥
संजी-तन्विति । तनुषु लतासु विनिवेशितविग्रहाः संक्रमितदेहाः । भ्रमरेषु संक्रमिता ईक्षणवृत्तयो दृग्व्यापारा यासां ता वनदेवताः सुनयनं सुलोचनं नयेन नीत्या नन्दितास्तोषिताः कोसला येन तं दशरथमध्वनि ददृशुः । प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः ॥५२॥
अन्वयः--तनुलताविनिवेशितविग्रहाः भ्रमरसंक्रमितेक्षणवृत्तयः वनदेवताः नयनन्दितकोसलम् सुनयनं तम् अध्वनि ददृशुः ।
व्याख्या--तन्त्र्यश्च ताः लताः तनुलताः। तनुलतासुकोमलवल्लरीषु सूक्ष्मवल्लरीषु वा विनिवेशितः संक्रमितः देहः शरीरं यासां ताः तनुलताविनिवेशितविग्रहाः । भ्रमन्तीति भ्रमराः । भ्रमरेषु-द्विरेफेषु संक्रमिता: संगमिताः