________________
नवमः सर्गः
२७२
सुकुमार एवं सुन्दर पंखड़ी व पराग वाले तथा अपने प्रेमी से दिये गये उस फूल को युवती स्त्रियों ने धुंघराले बालों में धारण किया ॥४०॥
अलिभिरब्जनबिन्दुमनोहरैः कुसुमपक्तिनिपातिभिरङ्कितः । न खलु शोभयति स्म बनस्थली न तिलकस्तिलकः प्रमदामिव ।।४।।
संजी०–अलिभिरिति । अजनबिन्दुमनोहरैः कजलकणसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः। अलिभिरङ्कितश्चिह्नितस्तिलकः श्रीमान्नाम वृक्षः । 'तिलकः क्षुरकः श्रीमान्' इत्यमरः । वनस्थलीम् । तिलको विशेषकः । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । प्रमदामिव । न शोभयति स्मेति न खलु । अपि त्वशोभयदेवेत्यर्थः । 'लट स्मे' (पा. ३।२।११८ ) इति 'स्म'शब्दयोगाद्भतार्थे ॥४१॥
__ अन्वय:--अञ्जनबिन्दुमनोहरैः कुसुमपंक्तिनिपातिभिः अलिभिः अंकित: तिलकः वनस्थलीम, तिलकः प्रमदाम इव न शोभयति स्म इति न खलु (अपि तु शोभयति स्म एव )।
व्याख्या-विन्दन्ति, इति बिन्दवः। अनक्ति, इति अञ्जनम् । अञ्जनस्य= कजलस्य बिन्दवः कणाः, इति अजनबिन्दवः अजनबिन्दवः इव मनोहराः= सुन्दरास्तैः अजनविन्दुमनोहरैः । कुसुमानां-पुष्पाणां पंक्तयः श्रेणयः इति कुसुमपंक्तयस्तासु निपतितुं पतितुं शीलं येषां ते तैः कुसुमपङ्क्तिनिपातिभिः । अलन्ति भूषयन्तीति अलयस्तैः अलिभिः भ्रमरैः अंकितः=चिह्नितः सुशोभित इत्यर्थः । तिलतीति तिलकः तिलः इव इति वा तिलकः श्रीमान् एतन्नामक. वृक्ष इत्यर्थः । वनस्य अरण्यस्य स्थली-अकृत्रिमा भूः तां वनस्थलों तिलकः= विशेषकः प्रमदांरमरणीम् इव-यथा न शोभयति स्मन शोभयामास इति न खलु किन्तु शोभयामास एवेति । __समासः-अंजनस्य बिन्दव इति अंजनबिन्दवस्तद्वत् मनोहरास्तः अंजनबिन्दुमनोहरैः । कुसुमानां पंक्तयः कुसुमपंक्तयस्तासु निपतन्ति तच्छीलास्तैः कुसुमपंक्तिनिपातिभिः । वनस्य स्थली वनस्थली तां वनस्थलीम् । ___हिन्दी-कजल की बिन्दुओं के समान सुन्दर, तथा फूलों के समूह पर बैठे हुए भौरों से सुशोभित तिलक श्रीमान् नामक वृक्ष ने, वन की भूमि को,