________________
२५१
नवमः सर्गः यजमानाय प्रयच्छति' इति वचनात् । कुशमयी मेखला यस्यास्तां कुशमेखलाम् । 'शरमयी मौजी वा मेखला । तया यजमानं दीक्षयतीति विधानात् । प्रकृते कुशग्रहणं क्वचित्प्रतिनिधिदर्शनात्कृतम् । यतगिरं वाचंयमम् । 'वाचं यच्छति' इति श्रुतेः । मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम् 'कृष्णविषाणया। कण्डयते' इति श्रुतेः । अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन् । असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा अभासयद्भासयति स्म ॥२१॥
अन्वयः-ईश्वरः अजिनदण्डभृतं कुशमेखलां यतगिरं मृगभंगपरिग्रहाम् अध्वरदीक्षितां तनुम् अधिवसन् असमभासं यथा स्यात्तथा अभासयत् ।
व्याख्या-ईशितुं शीलमस्येति ईश्वरः भगवान् अष्टमूर्तिः शिवः अजिनं= कृष्णाजिनं, मृगचर्म इत्यर्थः, दण्डम् औदुम्बरं च बिभर्ति इति अजिनदण्डभृत् ताम् अजिनदण्डभृतम् । कौ-पृथिव्यां शेते तिष्ठतीति कुशः । । कु-पापं श्यति-तनूकरोतीति वा कुशः, कुशमयी मेखला-काञ्ची यस्याः सा तां कुशमेखलाम् । यता गीर्यस्याः सा तां यतगिरम्=वाचंयमाम्, मौनव्रतीत्यर्थः मृगस्य= हरिणस्य कृष्णमृगस्येत्यर्थः शृङ्ग-विषाणमिति मृगशृंगम् । मृगशृंगं परिग्रहः= कण्डयनसाधनं यस्याः सा तां मृगशृंगपरिग्रहाम् । अध्वानं रातीति अध्वरः । दीक्षा संजाता यस्याः सा दीक्षिता। अध्वरे यज्ञे दीक्षिता= संस्कारयुक्ता इति अध्वरदीक्षिता ताम् अध्वरदीक्षितां तनुं शरीरं दाशरथीमित्यर्थः, अधिवसन्-अधितिष्ठन् सन् न समा असमा असमा असदृशी भाः कान्तिः यस्मिन् कर्मणि तत् असमभासं यथा स्यात्तथा अभासयत् भासयति स्म ।
समासः-अजिनं च दण्डश्चेति अजिनदण्डौ, अजिनदण्डौ बिभर्ति इति अजिनदण्डभृत् ताम् अजिनदण्डभृतम् । कुशानां मेखला यस्याः सा तां कुशमेखलाम् । यता गीर्यस्याः सा तां यतगिरम् । मृगस्य शृंगं, मृगशृंगं परिग्रहो यस्याः सा तां मृगशृंगपरिग्रहाम् । अध्वरे दीक्षिता ताम् अध्वरदीक्षिताम् । असमा भाः यस्मिन् कमणि तत् यथा भवति तथा असमाभासम् ।
हिन्दी-मृगछाला और दण्ड को धारण किये, कुश की मेखला ( करधनी ) पहने मौन तथा मृग के सींग को लिये हुए यज्ञ की दीक्षा में बैठे महाराजदशरथ के शरीर में निवास करते हुए “भगवान् अष्टमूर्ति" शिव ने उनको ऐसा