________________
नवमः सर्गः
२४३
प्रभावः शौर्यश्च यस्य सः अहीनपराक्रमस्तम् प्रहीनपराक्रमम् तं = प्रसिद्धं दशरथं दशरथनामानम् । एति, ईयते वा इनः प्रभुः = स्वामी तम् इनम् अधिगम्य प्राप्य पुनः भूयः न बभौ-न शुशुभे, इति न किन्तु बभौ एव, अर्थात् दशरथं स्वामिनं प्राप्य पृथिवी पुनरपि बभौ ।
ममामः-दश च ताः दिशः दशदिशस्तासाम् अन्ताः इति दशदिगन्तास्तान् जयतीति दशदिगन्तजित् तेन दशदिगन्तजिता। न हीनः पराक्रमो यस्य सः अहीनपराक्रमस्तम् अहीनपराक्रमम् ।
हिन्दी-दसों दिशाओं को जीतने वाले रघु से जिस प्रकार पृथिवी ने अपनी श्री शोभा पुष्ट की थी, तथा रघु के पीछे अज से शोभा बढ़ी थी, उसी प्रकार रघु तथा अज के समान प्रराक्रमी शक्तिशाली दशरथ राजा को प्राप्त करके शोभा नहीं बढ़ी ? किन्तु पृथिवी पूर्ववत् अवश्य ही सुशोभित हुई ॥५॥
समतया वसुदृष्टिविसर्जनैनियमनादसतां च नराधिपः । अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥ ६ ॥
संजी०-समतयेति । नराधिपो दशरथः समतया समवर्तित्वेन । मध्यस्थस्वेनेत्यर्थः। वसुवृष्टेर्विसर्जनः। असतां दुष्टानां नियमनान्निग्रहाच्च । सवरुणौ वरुणसहितौ यमपुण्यजनेश्वरौ यमकुबेरौ यमकुबेरवरुणान् । यथासंख्यमनुययावनु. चकार । रुचा तेजसाऽरुणाग्रसरमरुणसारथिं सूर्यमनुययौ ॥ ६ ॥
अन्वयः-नराधिपः समतया वसुदृष्टिविसर्जनैः असतां नियमनात् च . सवरुणौ यापुण्यजलेश्वरौ अनुययौ रुचा अरुणाग्रसर अनुययौ ।
याख्या-अधिकं याति-रक्षतीति अविपः । नरागां मनुष्याणान् अधिपः- स्वामी इति नराधिपः = दशरथः । सरस्य तुल्यस्य भावः समता, तया समतया सर्वजनेषु समवर्तितया । उष्यतेऽस्मिन् गुणैरिति वसू । वस्यते आच्छाद्यते वा वसु । वसोः धनस्य वृष्टिः वर्षणमिति वसुवृष्टिः वसुवृष्टः विसर्जनानि--वितरणानि-दानानीत्यर्थः तैः वसुवृष्टिविसर्जनः । न सन्तः असन्त. स्तेषां असतां -दुर्जनानां नियमनं निग्रहस्तस्मात् नियमनात् च, वियते णवोति