________________
अष्टमः सर्गः
२३५ सम्यग्विनीतमथ वर्महर कुमार
मादिश्य रक्षणविधौ विधिवत्प्रजानाम् । रोगोपसृष्टतनुदुर्वसति मुमुक्षुः
प्रायोपवेशनमतिर्नृपतिर्बभूव ॥९॥ - संजी०–सम्यगिति । अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हरतीति वर्महरः कवचधारणाहवयस्कः । 'वयसि च' ( पा.३।२।१० ) इत्यच्प्रत्ययः। तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्विध्यहम् । यथाशास्त्रमित्यर्थः । 'तदर्हम्' (पा. ५।१।११७ ) इति वतिप्रत्ययः । प्रादिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वसति दुःखावस्थिति मुमुक्षुर्जिहासुः सन् । प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव । 'प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि' इति विश्वः । अत्र पुराणवचनम्--'समासक्तो भवेद्यस्तु पातकर्महदादिभिः । दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः । स्वयं देहविनाशस्य काले प्राप्त महामतिः । आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया। प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा । एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु । नराणामथ नारीणां सर्ववर्णेषु सर्वदा ।।' इति । अनयोर्वसन्ततिलकाच्छन्दः । तल्लक्ष णम्-'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥९४॥
अन्वयः-अथ नृपतिः सम्यग्विनीतं वर्महरं कुमारं प्रजानां रक्षणविधौ विधिवत् श्रादिश्य, रोगोपसृष्टतनुदुईसति मुमुक्षुः सन् प्रायोपवेशनमतिः बभूव ।
व्याख्या-अथ अनन्तरं नन् जनान् पाति-रक्षतीति नृपतिः अजः सम्यग्विनीतं स्वाभाविकसंस्काराभ्यां नम्र वर्म-कवचं हरति धारयतीति वर्महरस्तं वर्महरं कुमारयति-क्रीडतीति कुमारस्तं कुमारं-दशरथं प्रजानां लोकानां विधानं विधिः रक्षणस्य% पालनस्य विधिः-प्रकारस्तस्मिन् रक्षणविधी विधिवत् यथाशास्त्रमित्यर्थः आदिश्यनियुज्य, रोगेण-व्याधिना उपसृष्टा-व्याप्ता या तनु:-शरीरमिति रोगोपसृष्टतनुः तस्याः दुर्वसतिः-दुःखावस्थितिस्तां रोगोपसृष्टतनुदुर्वसतिम् । मुमुक्षुः त्यक्तुमिच्छुः सन् प्रकृष्टमयनं प्रायः । प्रायेण उपवेशनमिति प्रायोपवेशनम् तस्मिन् प्रायोपवेशने = अनशनावस्थाने मतिः बुद्धिर्यस्य स प्रायोपवेशनमतिः बभूव-जातः । अनशनप: रायणो जातः।