________________
२२८
रघुवंशमहाकाव्ये
अपने बन्धुनों के आंसु (रोना) परलोक में गए (मरे) हुवे को सन्ताप देते हैं ऐसा मन्वादि धर्मशास्त्रकार कहते हैं ॥८६॥
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥८७।।
संजी०---मरणमिति । शरीरिणां मरणं प्रकृतिः स्वभावः । ध्रुवमित्यर्थः । जीवितं विकृतिर्यादृच्छिकं बुधैरुच्यते । एवं स्थिते जन्तुः प्राणी क्षणमपि । अत्यन्तसंयोगे द्वितीया । श्वसञ्जीवन्नवतिष्ठते । यद्यसौ क्षणजीवी लाभवान्ननु । जीवने यथालाभं संतोष्टव्यम् ; अलभ्यलाभात्, मरणे तु न शोचितव्यम् ; अस्य स्वाभाव्यादिति भावः ॥७॥
अन्वयः-शरीरिणां मरणं प्रकृतिः जीवितं विकृतिः बुधैः उच्यते । एवं स्थिते' जन्तुः क्षणमपि श्वसन अवतिष्ठते यदि, असौ लाभवान् ननु ।
व्यख्या-शृणाति, शीयते वा शरीरं, शरीरमस्ति येषां ते शरीरिणस्तेषां शरीरिणां-देहिनां मरणं-मृत्युः प्रकृतिः स्वभावः निश्चितमित्यर्थः । जीवितं जोवनं विकरणं विकृतिः विकारः यादृच्छिकं बुध्यन्ते इति बुधास्तैः बुधः विद्वद्भिः उच्यते= कथ्यते, ‘एवं स्थिते सति' जायते इति जन्तुः प्राणी क्षणं-निमेषं= त्रिंशत्कलात्मकमित्यर्थः श्वसन्-जीवन् अवतिष्ठते स्थितो भवति यदि चेत् असौ-क्षणजीवी लभ्यते इति लाभः लाभोऽस्यास्तीति लाभवान् फलवान् ननु-निश्चये । जीवनस्य विकाररूपत्वात्, जीवने न्यूनेऽपि सन्तोष्टव्यम्, अलभ्यलाभात् । मरणस्य स्वाभाविकत्वात् मरणे तु न शोचितव्यमित्यर्थः ।
हिन्दी-प्राणियों का मरना स्वभाव है ( ध्रुव सत्य है ) एवं जीना विकार अस्वाभाविक है ऐसा ज्ञानी लोग कहते हैं । ऐसी दशा में यदि प्राणी क्षण भर भी जीता है तो यह लाभवाला ही है ॥८॥
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धतम् ।।८।।
संजी०--प्रवेति । मूढचेतनो भ्रान्तबुद्धिः प्रियनाशमिष्टनाशं हृद्यर्पितं निखातं शल्यं शकुमवगच्छति मन्यते । स्थिरधीविद्वांस्तु तदेव शल्यं समुद्धृतमुत्खातं