________________
अष्टमः सर्गः
१६. समासः-न पार्थिवानि अपार्थिवानि तैः अपार्थिवैः । प्रातोद्यस्य शिरस्तस्मिन् निवेशिता ताम् अातोद्यशिरोनिवेशिताम् । अधिवासस्य स्पृहा, अधिवासस्पृहा तया अधिवासस्पृहया।
हिन्दी-स्वर्ग के पुष्पों से बनी हुई और वीणा के सिरे पर रखी हुई माला को वेगवाले पवन ने मानों गन्ध से अपने को सुवासित करने के लोभ से उड़ा लिया । अर्थात् प्रबलवायु के कारण वह नीचे गिर पड़ी ॥३४॥
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः । ददृशे पवनावलेपनं सृजती बाष्पमिवाञ्जनाविलम् ॥३५॥
संजी०-भ्रमरैरिति । कुसुमानुसारिभिः पुष्पानुयायिभिर्धमरैरलिभिः परिकोर्णा व्याप्ता मुने रदस्य परिवादिनी वीणा 'वीणा तु वल्लकी। विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ।' इत्यमरः । पवनस्य वायोरवलेपोऽधिक्षेपस्तजमञ्जनेन कजलेनाविलं कलुषं बाष्पमश्रु सृजतीव मुञ्चतीव । ददृशे दृष्टा। भ्रमराणां साञ्जन बाष्पबिन्दुसादृश्यं विवक्षितम् । 'वा नपुंसकस्य' (पा. ७।१७९) इति वर्तमाने 'माच्छीनद्योर्नुम् ' ( पा. ७।१।८० ) इति नुम्विकल्पः ॥३५॥
अन्वयः-कुसुमानुसारिभिः भ्रमरैः परिकीर्णा मुनेः परिवादिनी पवनावले. पलम् अञ्जनाविलं बाष्पं सृजती इव ददृशे ।
व्याख्या-कुसुमानि=पुष्पाणि अनुसर्तुम् अनुगन्तुं शीलं येषान्ते कुसुमानुसारिणस्तैः कुसुमानुसारिभिः, भ्रमन्ति इति भ्रमरास्तैः भ्रमरैः द्विरेफैः परिकीर्णा= व्याप्ता मुनेः नारदस्य सप्तभिः तंत्रीभिः उपलक्षिता परिवदति स्वरान् इति परिवादिनी वीणा पुनातीति पवनस्तस्य पवनस्य वायोः अवलेपः अधिक्षेपः, । इति पवनावलेपस्तस्मात् जातम् उत्पन्नम् इति पवनावलेपजम् अञ्जनेन कजलेन कलुषम् अञ्जनाविलम्. बाष्पम् अश्रु सृजती-मुवती त्यजती इव-यथा ददृशे= दृष्टा जनैरिति शेषः ।
समासः-कुसुमानि अनुसतुं शीलं येषां ते तैः कुसुमानुसारिभिः । पवनस्य अवलेपस्तस्मात् जातं पवनावलेपजम्, तत् । अनेन प्राविलम्, तत् ।