________________
अष्टमः सर्गः
१७६
पवने, शचते इति शची-पुलोमजा तस्याः सखा-मित्रम् स शचीसखः शच्या सहेत्यर्थः, म्रियन्ते एभिः प्रवृद्धः, विना वा मरुतस्तेषां मरुतां = देवानां पालयतीति पालयिता=इन्द्रः इव-यथा विजहार=चिक्रोड । वने विहारं कुर्वन्नासीदित्यर्थः ।
समासः-अवेक्षिताः प्रजाः येन सोऽवेक्षित प्रजः । शोभना प्रजा यस्य सः सुप्रजाः । उपगतं वनमिति उपवनं नगरस्य उपवनमिति नगरोपवनं तस्मिन् नगरोपवने । शच्याः सखा शचीसखः ।
हिन्दी-किसी समय, प्रजापालक, उत्तमसन्तानवाला, राजा अज महारानी इन्दुमती के साथ अयोध्या के उपवन में उसी प्रकार बिहार कर रहे थे जिस प्रकार कि देवताओं का पालन करने वाला इन्द्र अमरावती के नन्दन वन में इन्द्राणी के साथ विहार करता है ॥३२॥
मथ रोधसि दक्षिणोदधेः श्रितगोकर्णनिकेत मीश्वरम् । उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ॥३३॥
संजी०-प्रयेति । अथ दक्षिणस्योदधेः समुद्रस्य रोधसि तीरे श्रितगोकर्णनिकेतमधिष्ठितगोकर्णाख्यस्थानमीश्वरं शिवमुपवीणयितुं वीणयोप समीपे गातुम् । 'सत्यापपाश-' (पा. ३।१।२५ ) इत्यादिना 'वीणा' शब्दादुपगानार्थे णिच्प्रत्ययः । ततस्तुमुन् । नारदो देवर्षी रवेः सूर्यस्य संबन्धिना उदयावृत्तिपथेनाकाशमार्गरण ययौ जगाम । सूर्योपमानेनास्यातितेजस्त्वमुच्यते ॥३३॥
अन्वयः-अथ दक्षिणोदधेः रोधसि श्रितगोकर्णनिकेतम् ईश्वरम् उपवीणयितुं नारदः रवेः उदयावृत्तिपथेन ययौ।
व्याख्या-अथ अनन्तरं दक्षते इति दक्षिणः, उदकानि धीयन्तेऽस्मिन्निति उदधिः, दक्षिणस्य-दक्षिणदिगभवस्य उदधेः समुद्रस्य रुणद्धि जलादिकमिति रोधः तस्मिन् रोधसि = कूले तीरे गोः कर्ण इवेति गोकर्णः, श्रितम् अधिष्ठितं गोकर्णः एतन्नामकं निकेतं-स्थानं येन स तं श्रितगोकर्णनिकेतम्, ईशितुं शीलमस्येति ईश्वरस्तमीश्वरं शंकरम् वीण्या=महत्या, ‘महतीनाम्नी नारदस्य वीणा' उप-समीपेगातुमिति उपवीणयितुम् नरस्य इदं नारं, ज्ञानं ददातीति नारदः । नारं-पानीयं पितृभ्यः सदा ददातीति वा नारदः । नारं जनसमूहं द्यति खण्डयति कलहेनेति वा