________________
१२४
रघुवंशमहाकाव्ये संजी०-आधोरणानामिति । गजसंनिपाते गजयुद्धे निशितैरत एव क्षुराग्रे: क्षुरस्याग्रमिवाग्रं येषां तैश्चक्ररायुधविशेषैह तानि छिन्नान्यपि । श्येनानां पक्षिविशेषाणाम् । 'पक्षी श्येनः' इत्यमरः। नखाग्रकोटिषु व्यासक्ताः केशा येषां तानि। आधोरणानां हस्त्यारोहाणाम् । 'आधोरणा हस्तिपका हस्त्यारोहा निषादिनः' इत्यमरः । शिरांसि चिरेण पेतुः पतितानि । शिरःपातात्पागेदारुह्य पश्चादुत्पततां पक्षिणां नखेषु केशसङ्गश्चिरपातहेतुरिति भावः ॥४६॥
अन्वयः-गजसन्निपाते निशितैः क्षराः चक्रः हृतानि अपि श्येननखानकोटिव्यासक्तकेशानि आधोरणानां शिरांसि चिरेण पेतुः ।
व्याख्या-गजन्तीति शब्दायन्ते इति गजाः, गजानां = हस्तिनां सन्निपात: = युद्धं तस्मिन् गजसन्निपाते, निशितैः = तीक्ष्णैः अत एव क्षुरस्य विलेखनद्रव्यस्य नापितास्त्रविशेषस्येत्यर्थः, अग्रमिव अग्रं येषान्ते तैः क्षुराग्रैः = आयुधैः हृतानि = छिन्नानि कृत्तानि अपि श्येनानां = पक्षिविशेषाणां नखाः = कररुहाः तेषामग्राणि = अग्रभागाः तेपां कोट्यः = उन्नतभागाः इति श्येननखानकोट्यः, तासु व्यासक्ताः-- संलग्नाः केशाः= कचाः येषां तानि श्येननखाग्रकोटिव्यासक्तकेशानि, आघोरयन्तीति आधोरणास्तेषामाधोरणानां हस्तिपकानाम् शिरांसि= मस्तका: चिरेण विलम्बन पेतुः = पतितानि । पतनात्पूर्वमेव उत्पततां पक्षिणां नखेषु तेषां केशानां संलग्नत्वादिति ।
समास:-गजानां सन्निपातस्तस्मिन् गजसन्निपाते । क्षुरस्याग्रमिव अग्रं येषां ते तैः क्षुराः। श्येनानां नखास्तेषामग्राणि तेषां कोट्यस्तासु व्यासक्ता: केशाः येषान्तानि श्येननखानकोटिव्यासक्तकेशानि।
हिन्दी-हाथियों के युद्ध में तेज तथा छुरे की धार के समान चक्रों (शस्त्रों) से कटे हुए भी महावतों के वे शिर देर से पृथिवी में गिरते थे, जिनके केश बाज पक्षियों के नखों की कोटियों में फंस गये थे। अर्थात् वहाँ पर ऊपर उड़ते हुये पक्षियों के पंजों में बाल फँस जाने से कटे हुये शिर देर में नीचे गिरते थे ॥४६॥
पूर्व प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी। तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥४७।।