________________
रघुवंशमहाकाव्ये ज्याल्पा-आकारेण = मूल् = शरीराकारेणेत्यर्थः, सदृशी= तुल्या, प्रज्ञा= बुद्धिः , यस्य स आकारसदृशप्रज्ञः, प्रज्ञया=बुद्ध्या, सदृशः= अनुरूपः, आगमः = शास्त्रं यस्य स, सदृशागमः, आममः = शास्त्रः, आरभ्यते इत्यारम्भः, सदृशः = तुल्य: आरम्भः= कर्म यस्य स, सदृशारम्भः, आरम्भेण == उपक्रमेण कर्मणा, सदृशः = समानः उदयः = परिणामः फलसिद्धिरित्यर्थः, यस्य स आरम्भसदृशोदया, स दिलीपः, आसीत् ।
समा-आकारेण सदृशी प्रज्ञा यस्य सः आकारसदशप्रज्ञः । सदशः आगमः यस्य सः सदृशागमः । आरभ्यते इति आरम्भः, आरम्भेण सदृशः उदयः यस्य सः आरम्भसदृशोदयः ।
अभि०-राजा दिलीपो यथा प्रशस्ताकारवान् तथैव तीक्ष्णबुद्धिरपि, एवं यादृशी तस्य बुद्धिः तादृश एव शास्त्रपरिश्रमः, तथा शास्त्रपरिश्रमानुसारी एव कार्यारम्भः, कार्यारम्भानुकलमेव साफल्यमपि आसीत् ।
हिन्दी-राजा दिलीप जैसे सुन्दर विशालकाय थे वैसी ही, उनकी कुशाग्रबुद्धि थी। जैसी तीक्ष्ण बुद्धि थी वैसे ही वे शास्त्राभ्यासी थे, इस लिये शास्त्रानुकूल ही कार्य करते थे, और वैसी ही पूर्ण सफलता भी उनको मिलती थी॥१५॥
भीमकान्तैपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥१६॥ सञ्जीविनी-मीमैश्च कान्तश्च नृपगुण राजगुणस्तेजःप्रतापादिभिः कुलशीलदाक्षिण्यादिभिश्च स दिलीप उपजीविनामाश्रितानाम् यादोभिर्जलजीवः । 'यादांसि जलजन्तवः' इत्यमरः । रत्नश्चार्णव इव । अधष्योऽनभिगम्य आश्रयणीयश्च बभूव ॥१६॥
अन्वयः--भीमकान्तः, नृपगुणः, सः, उपजीविनां, पावोरत्नः, अर्णवः, इव, अघृष्यश्च, अभिगम्यश्च, बभूव ।
बाच्य०-तेन अधष्येण च, अभिगम्येन च यादोरलेरणवेन, इव बभूवे ।
व्याख्या-भीमाः= भयंकराः, च, कान्ताः = मनोहराश्च, ते भीमकान्तास्त:, भीमकान्तः, नपाणां - राज्ञां, गुणाः= तेजःप्रतापदयादाक्षिण्यादयस्तैः नपगुणः, सः= राजा दिलीपः, उपजीवन्ति ते उपजीविनस्तेषामुपजीविनाम् = आश्रितजनानाम, यादांसि = जलजन्तवः च, रत्नानि = मण्यादयश्च तानि, तः यादोरत्न,