________________
१०८
रघुवंशमहाकाव्ये धात्वकारलोपमुमागमौ चेति ) आर्द्राश्च ते अक्षताः आर्द्राक्षतास्तेषामारोपणम् तत् आर्द्राक्षतारोपणम्।
हिन्दी-(फेरे हो चुकने पर) सुवर्ण के सिंहासन पर बैठे उन वर वधू ने स्नातकों कुटुम्बीजनों तथा राजा भोज से और पतिपुत्र वाली नारियों से बारी बारी से दिए गए (छोड़े गए) गीले अक्षतों को अनुभव किया। अर्थात् उक्त स्वजनों के आशीर्वादपूर्वक छोड़े गए कुंकुमाक्षत को वर वधू ने स्वीकार किया॥२८॥
इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा। महीपतीनां पृथगहणार्थं समादिदेशाधिकृतान धिश्रीः ॥२९॥
संजी०--इतीति। अधिश्रीरधिकसंपन्नो भोजकुलप्रदीपः स राजा। इति स्वसुरिन्दुमत्याः पाणिग्रहणं विवाहं संपाद्य कारयित्वा । महीपतीनां राज्ञां पृथगेकैकशोऽहणार्थ पूजार्थमधिकृतानधिकारिणः समादिदेशाज्ञापयाभास ।।२९।।
अन्वयः-अधिश्रीः भोजकुलप्रदीप: स: राजा इति स्वसुः पाणिग्रहणं सम्पाद्य, महीपतीनां पृथगर्हणार्थम् अधिकृतान् समादिदेश ।
व्याख्या-अधिगता = प्राप्ता श्री: = लक्ष्मीः येन सः अधिश्री:- लक्ष्मीवान भोजाना = वैदर्भाणां कुलम् =वंशस्तस्य प्रदीपः=प्रकाशकः, इति भोजकुलप्रदीपः सः= प्रसिद्धः राजा = भूपालः इति = पूर्वोक्तप्रकारेण स्वसुः = भगिन्या: इन्दुमत्याः पणायन्त्यनेनेति (व्यवहरन्ति) पाणिः = हस्तस्तस्य ग्रहणं = स्वीकरणमिति तत् पाणिग्रहणं = विवाह सम्पाद्य = कारयित्वा महा: = पृथिव्याः पतयः= राजानस्तेषां महीपतीनाम् = अन्यसमागतनृपाणामित्यर्थः पृथग् = एकैकश इत्यर्थः अर्हणा = पूजा तस्यै अहणार्थ यथोचितसत्कारार्थमित्यर्थः अधिकृतान् =अधिकारिणः सत्कारार्थं नियुक्तान् पुरुषानित्यर्थ: आदिदेश -- आदिष्टवान् ।
समास:--अधिगता श्रीर्येन सः, अधिका श्रीर्यस्य वा अधिश्रीः। भोजानां कुलं तस्य प्रदीपः इति भोजकुलप्रदीपः । पाणे: ग्रहणमिति पाणिग्रहणं तत् । मह्यते इति मही तस्याः पतयस्तेषां महीपतीनाम्। अधिकमुपरि वा क्रियन्ते स्म इति अधिकृतास्तान अधिकृतान् ।