________________
महाकविकालिदास कृत श्री रघुवंश महाकाव्य
सप्तम सर्ग
अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् । स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ १ ॥
संजी० - अथेति । अथ विदर्भनाथो भोजः सदृशेनोपयन्त्रा वरेण युक्ताम् । अत एव साक्षात् प्रत्यक्षम् ' प्रत्यक्ष तुल्ययोः' इत्यमरः । स्कन्देन युक्तां देवसेनामिव । देवसेना नाम देवपुत्री स्कन्दपत्नी तामिव स्थितां स्वसारं भगिनीमिन्दुमतीमादाय गृहीत्वा पुरप्रवेशाभिमुखो बभूव । उपजातिवृत्तं सर्गेऽस्मिन् ॥ १ ॥
अन्वयः - अथ विदर्भनाथः सदृशेन उपयन्त्रा युक्ताम् अत एव साक्षात् स्कन्देन युक्ताम् देवसेनाम् इव स्वसारम् आदाय पुरप्रवेशाभिमुखः बभूव ।
व्याख्या - अथ = मालाप्रदानानन्तरम् (स्वयंवरानन्तरमित्यर्थः) विदर्भाणां = देशविशेषाणां नाथः = स्वामी, इति विदर्भनाथः = भोजः । सदृशेन = वय सा कान्त्या कुलेन च समानेन, उप समीपं गच्छति = पाणिग्रहणं करोतीति उपयन्ता तेन उपयन्त्रा=वरेण, युक्तां = सहिताम् अत एव साक्षात् = प्रत्यक्षम्, स्कन्देन= कुमारेण, कार्तिकेयेनेत्यर्थः, युक्तां देवस्य सेना देवसेना = देवपुत्री = स्कन्दपत्नी तां देवसेनामिव स्थितां स्वसारं = भगिनीम् = इन्दुमतीम् आदाय = गृहीत्वा पुरे =नगरे प्रवेशः=गमनम् तस्य अभिमुखः = संमुखः इति पुरप्रवेशाभिमुखः बभूव =
जातः ।
समासः - समानं दृश्यते यः स सदृशस्तेन सदृशेन, देवस्य सेना देवसेना तां देवसेनाम्, विदर्भाणां नाथ: विदर्भनाथः, पुरे प्रवेश: पुरप्रवेशस्तस्य अभिमुख इति पुरप्रवेशाभिमुखः ।