________________
षष्ठः सर्गः
केशाः = शिरोरुहाः यस्याः, अरालकेशी तस्याः अरालकेश्याः = इन्दुमत्याः सः - अभिलाषबन्धः रोमाञ्चानां = पुलकानां लक्ष्यं = व्याजस्तेन रोमाञ्चलक्ष्येण गात्रं = शरीरमेव यष्टिः=लगुडः, तां गात्रयष्टि भित्त्वा = निर्भिद्य निराक्रामत् = प्रास्फुटत् ।
समासः -- अभिलाषस्य बन्ध:, अभिलाषबन्धस्तम् अभिलाषबन्धम् । शालीनस्य भावः शालीनता तथा शालिनतया । अरालाः केशाः यस्याः सा तस्याः अरालकेश्याः । रोमाञ्चानां लक्ष्यं तेन रोमाञ्चलक्ष्येण । गात्रमेव यष्टिस्तां गात्रयष्टिम् ।
७७
हिन्दी - वह इन्दुमती उस जवान अज विषयक अपनी प्रेमग्रन्थि को लज्जा के कारण वाणी से तो न कह सकी । फिर भी घुंघराले बालो वाली इन्दुमती का वह स्नेहबन्धन रोमाञ्च के बहाने शरीररूपी यष्टि को फोड़ कर बाहर निकल आया । अर्थात् सात्विकभाव ( रोमाञ्च ) हो जाने से इन्दुमती का अनुराग प्रगट हो गया ।। ८१ ॥
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।
आयें ! व्रजामोऽन्य इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥ ८२ ॥
संजी० - तथेति । सख्यामिन्दुमत्यां तथागतायां तथाभूतायाम् । दृष्टानुरागायां सत्यामित्यर्थः । सखी सहचरी । 'सख्यशिश्वीति भाषायाम्' (पा. ४|१|६२) इति निपातनान्ङीष् । वेत्रभृत् । सुनन्दा | हे आर्ये पूज्ये ! अन्यतोऽन्यं प्रति व्रजाम इति परिहासपूर्वमाबभाषे । अथ वधूरिन्दुमत्येनां सुनन्दामसूयया रोषेण कुटिलं ददर्श । अन्यत्र गमनस्यासह्यत्वादित्यर्थः ।। ८२ ।।
अन्वयः - सख्यां तथागतायां सत्याम्, सखी वेत्रभृत् हे आयें अन्यत: व्रजाम: इति परिहासपूर्वम् आबभाषे । अथ वधूः एनाम् असूयाकुटिलं ददर्श ।
व्याख्या--संख्याम् = इन्दुमत्यां तथा = तेन प्रकारेण गता = भूता तस्यां तथागतायां सत्याम् प्रकटानुरागायामित्यर्थः, सखी - सहचरी वेत्रं बिभर्तीति वेत्रभृत् = दौवारिकी सुनन्दा, हे आर्ये = पूज्ये अन्यतः = अपरं प्रति व्रजामः = गच्छामः, इति= इत्थं परिहासः = हास्यं पूर्व: : प्रथमः यस्मिन् तत् परिहासपूर्वम्, आबभाषे = जगाद | अथ = अनन्तरं बधूः = इन्दुमती एनां = सुनन्दाम् असूयया = रोषेण कुटिलं = वक्त्रं तिर्यक् असूया कुटिलं यथा तथा ददर्श = अवलोकयामास ।