________________
५२
. रघुवंशमहाकाव्ये
के लिए यात्रा करता है उस समय इसके आगे-आगे चलने वाले मतवाले सेना के हाथी ऐसे प्रतीत होते हैं मानो हाथियों के बहाने महेन्द्र पर्वत चल रहा हो । अर्थात् पर्वत के समान इस राजा के हाथी हैं ॥ ५४॥
ज्यादातरेखे सुभुजो भुजाभ्यां बिभति यश्चापभृतां पुरोगः । रिपुश्रियां साजनबाष्पसेके बन्दीकृतानामिव पद्धती द्वे ॥५५॥
संजी०--ज्याघातेति । सुभुजश्चापभृतां पुरोगो धनुर्धराग्रेसरो यः। बन्दीकृतानां प्रगृहीतानाम् । 'प्रग्रहोपग्रहो बन्धाम्' इत्यमरः । रिपुश्रियां सानो बाष्पसेको ययोस्ते । कज्जलमिश्राश्रुसिक्ते इत्यर्थः । पद्धती इव । द्वे ज्याघातानांमौर्वी किणानां रेखे राजी भुजाभ्यां बिभर्ति । द्विवचनात्सव्यसाचित्वं गम्यते । रिपुश्रियां मुजाभ्यामेवाहरणात्तद्गतरेखयोस्तत्पद्धतित्वेनोत्प्रेक्षा। तयोः श्यामत्वात्साञ्जनाश्रुसेकोक्ति: ॥ ५५ ॥
अन्वयः----सुभुजः चापभृताम् पुरोगः यः बन्दीकृतानाम् रिपुंश्रियाम् साञ्जनबाष्पसेके पद्धती इव, द्वे ज्याघातरेखे भुजाभ्याम् बिभर्ति । __व्याख्या---सुष्ठु भुजौ = बाहू यस्य स सुभुजः चापम् = धनु: बिभ्रतीति चापभृतस्तेषाम् चापभृताम् = धनुर्धारिणाम् पुरः = अग्रे गच्छति = यातीति पुरोगः यः हेमांगदः न बन्धः 'इति' अबन्धः बन्धः संपद्यमानाः कृता इति बन्दीकृतास्तासाम् बन्दीकृतानाम् = उपगृहीतानाम्, रिपूणाम् = शत्रूणाम् श्रियः = लक्ष्म्यः, तासाम् रिपुश्रियाम् अञ्जनेन सह वर्तते इति साञ्जनः, साञ्जनः = सकञ्जल: बाष्पाणाम् = अश्रूणाम् सेचनम् ययोस्ते साजनबाष्पसेके पद्भ्यां हन्येते ये ते पद्धती = मागौं इव = यथा द्वे ज्याया: मौाः घाता:= किणाः, इति ज्याघातास्तेषां रेखे-राजी, इति ज्याघातरेखे भुजाभ्यां = बाहुभ्याम् बिमति = धारयति ।
समास:-सुष्ठु भुजौ यस्य स सुभुजः, चापं बिभ्रतीति चापभृतः तेषां चापभृताम्, पुरो गच्छतीति पुरोगः। न बन्धः, अबन्धः बन्धः संपद्यमानाः कृताः बन्दीकृतास्तासां बन्दीकृतानाम् । रिपूणां श्रियस्तासां रिपुश्रियाम् । अञ्जनेन सहितः साञ्जनः साञ्जनः बाष्पाणां सेकः ययोस्ते साञ्जनबाष्पसेके । ज्यायाः घातास्तेषां रेखे इति ज्याघातरेखे, ते।