________________
षष्ठः सर्गः
४१
परश्वधस्तस्य रामपरश्वधस्य, उत्पलस्य पत्रमिति उत्पलपत्रं तस्य सार इव सारो यस्याः सा ताम् उत्पलपत्रसाराम् ।
हिन्दी – यह राजा इतना बलवान् है कि युद्ध में अग्नि की सहायता को पाकर परशुरामजी के उस फरसे की तेज ( पैनी ) धारा को भी कमल के पत्ते की तरह कोमल समझता है । जो कि क्षत्रियों के लिए कालरात्रि अर्थात् जिसने क्षत्रियों का २१ बार संहार कर डाला था । इसे अग्नि ने वरदान दिया था कि मैं स्वयं तेरे शत्रुओं को जला दूंगा ॥४२॥
अस्याङ्क लक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्ब काञ्चीम् । प्रासादजालैर्जल वेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥४३॥ संजी० - अस्येति । दीर्घबाहोरस्य प्रतीपस्याङ्क लक्ष्मीर्भव, एनं वृणीष्वेत्यर्थः । अनेनायं विष्णुतुल्य इति ध्वन्यते माहिष्मती नामास्य नगरी । तस्या वप्रः प्राकारः एव नितम्बः तस्य काञ्चीं रशनाभूताम् जलानां वेण्या प्रवाहेण रम्याम् | 'ओघः' प्रवाहो वेणी च' इति हलायुधः । रेवां नर्मदां प्रासादजालैर्गवाक्षैः । 'जालं समूह आनायो गवाक्षक्षारकावपि' इत्यमरः । प्रेक्षितुं काम इच्छाऽस्ति यदि ॥ ४३॥
अन्वयः -- वीर्घबाहोः अस्य अंकलक्ष्मीः भव, यदि माहिष्मतीवप्रनितम्ब - काञ्चीम् जलवेणिरम्यान रेवां प्रासादजाले प्रेक्षितुं कामः अस्ति ।
व्याख्या - दीर्घा = उदग्रौ बाहू = भुजी यस्य स दीर्घबाहुस्तस्य दीर्घबाहोः अस्य = प्रतीपस्य अंकस्य = क्रोडस्य लक्ष्मीः = श्रीः इति अंकलक्ष्मीः भव - = भूयाः त्वमिति शेषः प्रतीपं वृणीष्वेत्यर्थः, यदि = चेत् माहिष्मत्याः = एतन्नामनगर्याः वप्रः == प्राकारः एव नितंब : मध्यभागः तस्य काञ्ची = रशना ताम् माहिष्मतीपप्रनितंब काञ्चीं जलानाम् = अम्भसाम् वेणी = प्रवाहः, तया रम्या = मनोहरा ताम् जलवेणीरम्याम् रेवाम् = नर्मदाम्, प्रासादानाम् == राजभवनानाम् जालानि = गवाक्षास्तैः प्रासादजालैः प्रेक्षितुम् = अवलोकयितुम् कामः इच्छा अस्तीति शेषः । . समासः– अङ्कस्य लक्ष्मीरिति, अंकलक्ष्मीः माहिष्मत्याः वप्रः एव नितम्ब - स्तस्य काञ्ची ताम् माहिष्मतीवप्रनितम्बकाञ्चीम्, प्रासादस्य जालानि तैः प्रासादजालैः, जलस्य वेणिः तया रम्या ताम् जलवेणिरग्याम् ।
=