________________
रघुवंशमहाकाव्ये ततः परं दुष्प्रसह द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ । निदर्शयामास विशेषदृश्यमिन्दु नवोत्थानमिवेन्दुमत्यै ।। ३१ ॥
संजी०-तत इति । ततोऽन्तरं प्रतिहारभूमौ द्वारदेशे नियुक्ता दौवारिकी। स्त्री द्वारिं प्रतीहारः' इत्यमरः द्विषद्भिः शत्रुभिर्दुष्प्रसहं दुःसहम्, शूरमित्यर्थः । विशेषेण दृश्यं दर्शनीयं, रूपवन्तमित्यर्थः। परमन्यं नपम् । नवोत्थानं नवोदयमिन्दुमिव । इन्दुमत्यै निदर्शयामास ।। ३१ ॥
अन्वयः-ततः प्रतिहारभूमी नियुक्ता द्विर्षाद्भः दुष्प्रसहं विशेषदृश्यं परम् नृपम् नवोत्थानम इन्दुम् इव इन्दुमत्य निदर्शयामास । ___ व्याख्या-ततः = अनन्तरम् प्रतिहारस्य भूमिरिति प्रतिहारभूमिः तस्याम् प्रतीहारभूमौ द्वारप्रदेशे नियुक्ता= निरूपिता द्वारपालिका, द्विषद्भिः। दुःखेन प्रसह्यते इति दुष्प्रसहस्तम् दुष्प्रसहम् = दुःसहम् शूरम् , विशेषेण अतिशयेन, दृश्यम् = दर्शनीयम् , सुन्दरमित्यर्थः, परम्-अपरम्, न्पम् = राजानाम्, नवं = नूतनम्, उत्थानम् = आविर्भावो यस्य सः तं नवोत्थानम्, इन्दुम् = चन्द्रम्, इव = यथा, इन्दुमत्य कुमाएँ, निदर्शयामास =प्रादर्शयत् । ___ समासः-दुःखेन प्रसह्यते इति दुष्प्रसहस्तं दुष्प्रसहम्, प्रतिहारस्य भूमिस्तस्यां प्रतिहारभूमौ, विशेषेण दृश्यस्तं विशेषदृश्यम्, नवम् उत्थानम् यस्य स तं नवोत्थानम्।
हिन्दी-इसके पश्चात् द्वार की रक्षा में नियुक्त की हुई सुनन्दा ने शत्रुओं के लिए असह्य अर्थात् शूरवीर और अत्यन्त सुन्दर एक दूसरा राजा, इन्दुमती को दिखाया जो कि नवोदित पूर्णचन्द्र के समान था ॥ ३१ ॥
अवन्तिनाथोऽय मुदग्रबाहुविशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥३२॥ .. संजो०-अदन्तीति। उदग्रवाहुर्दीर्घवाहुविशालवक्षास्तनुवृत्तमध्यः कृशवर्तुलमध्योऽयं राजाऽवन्तिनाथोऽवन्तिदेशाधीश्वरः। त्वष्ट्रा विश्वकर्मणा। भर्तुस्तेजोवेगमसहमानया दुहित्रा संज्ञादेव्या प्रार्थितेनेति शेषः । चक्रभ्रमं चक्राकारं शस्त्रोत्तेजनयन्त्रम् । 'भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुण्डाख्ये शिल्पियन्त्रके' इति विश्वः। आरोप्य यत्ने