________________
रघुवंशमहाकाव्ये पीठम् तस्मिन् तिष्ठन्ति = उपविशन्तीति सिंहासनस्थास्तान सिंहासनस्थान् । मनोज्ञः = मनोहरः वेषः = नेपथ्यम् येषां ते तान् मनोज्ञवेषान्, विमानैः चरन्ति = गच्छन्तीति वैमानिकास्तेषां वैमानिकानां = देवानाम्, आकृष्टा = गहीता लीला = सौभाग्यं यस्ते तान् आकृष्टलीलान्, नराणां मनुष्याणाम्, लोकं भुवनं, पालयन्ति= रक्षन्तीति नरलोकपालास्तान् नरलोकपालान्, अपश्यत् = ददर्श ।
समास:--सिंहस्थ आसनम् तस्मिन् तिष्ठन्तीति सिंहासनस्थास्तान् । मनोज्ञः वेषः येषान्ते तान् मनोज्ञवेषान् । आकृष्टा लीला यैस्ते तान् आकृष्टलीलान् । नराणां लोकं पालयन्तीति ते तान् नरलोकपालान् ।
हिन्दी--कुमार अज ने स्वयंवर स्थान में, सजे हुए मञ्चों पर लगे सिंहासनों पर बैठे हुए सुन्दर वेष वाले राजाओं को देखा, जो कि विमानों में बैठे हुए देवताओं के समान लग रहे थे ॥१॥
रतेशृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ।। २॥
सजी०-रतेरिति । 'रतिः स्मरप्रियायां च रागे च सुरते स्मृता' इति विश्वः । रतेः कामप्रियाया गृहीतानुनयेन स्वीकृतप्रार्थनेन, गृहीतरत्यनुनयेनेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । ईश्वरेण हरेण प्रत्यर्पितस्वाङगं काममिव स्थितं काकुत्स्थमजमालोकयतां नृपाणां मन इन्दुमतीनिराशं वैदर्भीनिःस्पृहं बभूव । इन्दुमती सत्पतिमेनं विहाय नास्मान्वरिष्यतीति निश्चिक्युरित्यर्थः । सर्वातिशयसौन्दर्यमस्येति भावः ॥ २ ॥
अन्वय :-रतेः गृहीतानुनयेन ईश्वरेण प्रत्याप्तिस्वाङ्गम् कामम् इव स्थितम् काकुत्स्थम् आलोकयताम् नृपाणाम् मनः इन्दुमतीनिराशम् बभूव ॥
व्याख्या--रतेः = कामपत्न्याः, गृहीतः स्वीकृतः, अनुनयः प्रार्थना, चेन सः, तेन गृहीतानुनयेन, ईशितु शीलमस्येति ईश्वरस्तेन ईश्वरेण = शिवेन, स्वस्य = निजस्य कामस्य अंग = शरीरमिति स्वांगम्, प्रत्यपितं प्रतिदत्तं, स्वांग= स्वशरीर यस्य स तं प्रत्यापितस्वांगम् कामम् मन्मथम् इवन्यथा स्थितं ककुत्स्थस्य-गोत्रापत्यं पुमान् काकुत्स्थस्तं काकुत्स्थम्-अजम् आ =समन्तात् लोकयतां पश्यताम्, नृपाणां राज्ञां मन:-चित्तम्, इन्दुमत्यां-वैदाम् निराशं निरभिलाषं बभूव-जातम् ।