________________
रघुवंशमहाकाव्ये भर्तुरन्यासङ्गज्ञानकलुषिताऽबलेव नायिकेव 'ज्ञातेऽन्यासङ्गविकृते खण्डिताकषायिता' इति दशरूपके । अनवेक्षमाणाऽविचारय ती सती उपेक्षमाणेत्यर्थः । 'ह्यनवेक्ष्यमाणा' इति पाठे निद्रावशेन भवताऽनवेक्ष्यमाणाऽनिरीक्ष्यमाणा कर्मणि शानच । लक्षणीः प्रयोजककीं येन प्रयोज्येन चन्द्रेण पर्युत्सुकत्वं त्वद्धिरहवेदनाम् 'कालाक्षमत्वमौत्सुक्यं मनस्तापज्वरादिकृत् इत्यलंकारे । विनोद. यति निरासयतीति योजना। शेषं पूर्ववत् । नाथस्त्वर्थोपपत्तिमपश्यन्निमं पक्षमुपैदिष्ट । लक्ष्मीर्येन चन्द्रेण सह त्वदाननसहशत्वादिति भावः । विनोदयति विनोदं करोति । विनोदशब्दात् 'तत्करोति तदाचष्टे' इति णिच्प्रत्ययः । सादृश्यदर्शनादयो हि विरहिणां विनोदस्थानानीति भावः । स चन्द्रोऽपि दिगन्तलम्बी पश्चिमाशां गतः सन् अस्तं गच्छन्नित्यर्थः । अत एव त्वदाननरुचि विजहाति त्वन्मुखसादृश्यं त्यजतीत्यर्थः । अतो निद्रां विहाय, तां लक्ष्मीमनन्यशरणां परिगृहाणेति भावः ॥६७॥
अन्वयः--निद्रावशेन, भवता, पर्युत्सुकत्वम्, अपि, निशि, खण्डिता, अबला, हव, अनवेक्षमाणा, 'सती' लक्ष्मीः , येन, पर्युत्सुकत्वं विनोदयति, सः, चन्द्रः, अपि, दिगन्तलम्बी, 'सन्' स्वदाननरुचि, विजहाति।।
वाच्य०-निद्रावशेन भवता पर्युत्सुकत्वमपि निशि खण्डितया अबलया इव अनवेक्षमाणया 'सत्या' लक्ष्म्या येन पर्युत्सुकत्वं विनोद्यते तेन चन्द्रेणापि दिगन्तलम्बिना 'सता' त्वदाननरुचिः विहीयते।
व्याख्या-निद्रायाः स्वापस्य, वशः अधीनः इति निद्रावशस्तेन निद्रावशेन निद्रावशीभूतेनेत्यर्थः । भवता=अजेन । परित उत्सुका इति पर्युस्सुका, पर्युत्सुकाया भावः पर्युत्सुकत्वम् अत्यौत्कण्ठ्यम् । त्वय्यनुरक्तत्वमपीत्यर्थः, अपि निशिरात्रौ । खण्डिता पत्युरन्यासंगज्ञानकलुषिता । अबला नायिका । इव यथा । अवेक्षत इति अवेक्षमाणा, न अवेक्षमाणा इत्यनवेक्षमाणा= उपेक्षमाणा । 'सती' लक्ष्मीः श्रीः, (प्रयोजककत्री ) येन चन्द्रेण सह विनोदयति = विनोदं करोति । सः पूर्वोक्तः । चन्द्रः इन्दुर्राप दिशामन्तः दिगन्तः दिगन्तं पश्चिमाशां लम्बते तच्छीलः इति दिगन्तलम्बी अस्तं गत इत्यर्थः, सन् । तव भवतोऽजस्य । आननं-मुखं तस्य रुचि-कान्ति शोभासादृश्यमित्यर्थः इति त्वदाननरुचि 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः । विजहाति-त्यजति ।