________________
पञ्चमः सर्गः
३६
अभि० - रघोर्महिषी ब्राह्मे मुहूर्ते कार्तिकेयसदृशं पुत्रं जनयामास । रघुरपि तं ब्रह्मदेवता मुहूर्त जन्म संबन्धेनाजनामानं चकार ।
हिन्दी - -राजा रघु की रानी ने ब्राह्ममुहूर्त में कार्तिकेय के सदृश पुत्र उत्पन्न किया । अतः रघु ने उसका नाम ब्रह्मा के ही नाम से 'अज' रक्खा ॥ ३६ ॥ रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाद्विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ||३७|| सञ्जीविनी — ओजस्वि तेजस्वि बलिष्ठं वा 'भोजस्तेजसि धातूनामवष्टम्भप्रकाशयोः । ओजो बले च दीप्तौ च' इति विश्वः । रूपं वपुः । 'अथ रूपं नपुंसकम् स्वभावाकृतिसौन्दर्य पुषि श्लोकशब्दयोः ।' इति विश्वः । तदेव पैतृकमेव वीर्य शौर्य तदेव नैसर्गिक स्वाभाविकमुन्नतत्वं तदेव तादृशमेवेत्यर्थः । कुमारो बालकः प्रवर्तितः उत्पादितो दीपः प्रदीपात्स्वोत्पादकदीपादिव स्वास्स्वकीयात् 'पूर्वादिभ्यो नवभ्यो वा' इति स्माद्भावो वैकल्पिकः । कारणाज्जनकान्न बिभिदे भिन्नो नाभूत्, सर्वात्मना तारा एवाभूदित्यर्थः ॥ ३७॥
अन्वयः -- ओजस्त्रि, रूपम्, तत्, एव, वीर्यम्, तत्, एव, नैसर्गिकम्, उन्नतत्वम्, 'तत् एव' 'आसीत् ' कुमारः, प्रदीपात् प्रवर्तितः दीपः, हब, स्वात्, कारणात् न विभिदे ।
वाच्य० - ओजस्विना रूपेण तेन एब, बीर्येण तेन एव, नैसर्गिकेण उन्नतस्वेन 'तेन एव, अभूयत' कुमारेण प्रदीपात् प्रवर्तितेन दीपेन इव स्वात् कारणात् न बिभिदे ।
"
,
व्याख्या - ओजः = तेजः, अस्यास्तीति ओजस्वि । रूपम् = आकृतिः | तत् = पैतृकम् एव । वीर्यम् = शौर्यम् 'तत् एव' निसर्गात् स्वभावात् जातम् = उत्पन्नम्, नैसर्गिकम् | उन्नतस्य = प्रांशुत्वस्य भावः उन्नतत्वम् । 'तत् एव' 'आसीत्' । कुमारः बाल: अजः । प्रदीपात् = दीपकात् । प्रत्रर्तितः = उत्पादितः, दीपः = दीपकः । इव = यथा । स्वात् = स्वकीयात् । कारणात् = जनकात् । न = नहि । विभिदे=भिन्नोऽभूत् |
--
समा० – ओजोऽस्त्यस्येस्योजस्वि । निसर्गाचातं नैसर्गिकम् । उन्नतस्य भाव उन्नतत्वम् ।
अभि० - कुमारोऽजः स्वतेजसा, वीर्येण, स्वाभाविकौन्नत्येन च स्वजनकं रघुं तथैवानुचकार यथा दीपः परस्माद्दोपात्प्रज्वलितस्तं प्रकाशादिना पूर्णतोऽनुकरोति ।
=