________________
३७
पञ्चमः सर्गः कथनवत् , द्विरुकमिवास्तीत्यर्थः । 'किन्तु' ईडितुं = प्रशंसितुं योग्यं ईड्यम् । भवन्तं-रघुम् । भवतः-रघोः। पिताजनकः । इव-यथा । त्वम्-रघुः अपि । आत्मनः-स्वस्य, गुणा: दयादाक्षिण्यादयः, तेषां अनुगुणः इति आत्मगुणानुरूपः, तम् आत्मगुणानुरूपम् । पुत्र-सुतं, लभस्व-प्राप्नुहि ।
समा०-ईडितुं योग्यः ईड्यः, तम् ईड्यम् । श्रात्मनः गुणाः आत्मगुणाः, आत्मगुणानाम् अनुरूपः आत्मगुणानुरूपः, तम् आत्मगुणानुरूपम् ।
अभि.-सर्वेपि कल्याणमयाः पदार्थास्त्वत्सन्निधौ प्रथमत एव वर्तन्तेऽ. तस्तेषामाशीविरुक्तभूतेवास्ति । तथापि सवतः पित्रा सकलगुणाकरो यथा भवानधिगतस्तथैव त्वमपि स्वत्सदृशं पुत्रं प्राप्नुहि ।
हिन्दी-सांसारिक समस्त सुख आपको पहले से ही उपलब्ध है; अतः उनके विषय में दिया गया आशीर्वाद पुनरक्त ही होगा, तथापि जिस प्रकार प्रशसा के योग्य आपको आपके पिता ने प्राप्त किया था उसी प्रकार आप भी अपने गुणों के अनुरूप पुत्र प्राप्त करें ॥ ३४ ॥
इत्थं प्रयुज्याशिषमग्रजन्मा राजे प्रतीयाय गुरोः सकाशम् । राजाऽपि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः ॥३५॥
सब्जीविनी-अग्रजन्मा ब्राह्मणः 'अग्रजन्मा द्विजे श्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः' इति विश्वः । इस्थ राज्ञ आशिषं प्रयुज्य दत्त्वा गुरोः सकाशं समीपं प्रतीयाय प्राप। राजाऽपि जीवलोको जीवसमूहः 'जीवः प्राणिनि गीष्पतौ' इति विश्वः। अर्कादालोकं प्रकाशमिव चैतन्यं इति पाठे शानम् । तस्मादृषेराशु सुतं लेमे प्राप ।। ३५ ।।
अन्वयः-अग्रजन्मा, इत्थम्, राशे, आशिषं, प्रयुज्य, गुरोः सकाशं, प्रतीयाय । राजा, अपि, जीवलोकः, अर्कात्, आलोकं, इव, तसगत्, आशु, सुतं, लेमे।
वाच्य०-अग्रजन्मना प्रतीये, राज्ञा अपि जीवलोवन आलोकः इव सुतः लेभे।
व्याख्या-अग्रे =प्रथम, जन्म = उत्पत्तिः, यस्य सः अग्रजन्मा = ब्राहाण: कौत्सः। इत्थम् = एवम् । राशे = नृपाय, रघवे । आशिषं = आशीर्वादम् । प्रयुज्य = दत्त्वा । गुरोः = उपाध्यायस्य वरतन्तोः । सकाशं = समीपम् । प्रतीयाय = प्रापत् । राजा = नृपः, रघुः, अपि। जीवानां = प्राणिनां, लोकः = समूहः, इति जीवलोकः। अर्कात् = सूर्यात् । आलोक = प्रकाशम् इव - यथा । तस्मात् = कौत्सर्षेः, आशु = शीघ्रम् । सुतं = पुत्रम् । लेमे = प्राप्तवान् ।