________________
रघुवंश महाकाव्ये
व्याख्या -तत्-तस्मात् । तावत् = अभीष्टसिद्धि पर्यन्तम् । ननहि, विद्यते, अन्यत्=अपरम्, कार्य न्= कर्म यस्य सः अनन्यकार्यः । अहम् = कौत्सः । अन्यतः= अस्मात्, दात्रन्तर सकाशादित्यर्थः । गुरो:- उपाध्यायस्य अर्थः = धनम् इति गुर्जर्थः, तम्, गुर्वर्थम् । आहर्तुम् आदातुम् । यतिध्ये प्रयत्नं करिष्यामि । ते तुभ्यम् रघवे । स्वस्ति = कल्याणम् । अस्तु भवतु । 'यतः 'चातकः=पत्तिविशेषः अपि । निर्गलितं=च्युतम्, अम्बु = जलम् एव गर्भः = मध्यभागः यस्य सः निगलिताबुगर्भः तं तथोक्तम् । शरदः = शरदतः घनः स्योदः इति शरद्वनः तम् शरदधनम् । ननहि । अर्दति=याचते ।
3
समा० - न विद्यते अन्यत् कार्यम् यस्य सः अनन्यकार्यः । गुरोः अर्थः गुर्वर्थः तम् गुर्वर्थम् । निर्गलितः अम्बु एक गर्भः यस्य सः निर्गलिताम्बुगर्भः, तम् निर्गलिताम्बुगर्भम् । शरदः घनः शरधनः, तम् शरद्धनम् ।
अभि० - हे राजन् ! अतोऽहं गुरवे देयं धनमन्यस्माद्दातुः सकाशादादातुमितो यामि । तव कल्याणमस्तु यथा चातकोऽपि निवॄष्टजलं शरत्कालिकं मेघं न याचते तथैवाहमपि सत्पात्रप्रतिपादितसकलसमृद्धेस्त्वत्तः सकाशात्, याच्ञां कर्तुं नोत्सहे ।
हिन्दी - इसलिए हे राजन्, गुरुदक्षिणा के लिए मैं अन्य दाता के समीप जाता हूँ, आपका कल्याण हो, क्योंकि चातक भी उस शरत्काल के बादल से जो कि सम्पूर्ण जल बरसा चुका है, जल की प्रार्थना नहीं करता है || १७ ||
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ||१८|| सब्जीविनी - एतावद्वाक्यमुक्त्वा प्रतियातुं कामो यस्य तं प्रतियातुकामं गंतुकामम् | 'काममनसोरपि' इति मकारलोपः । महर्षेर्वरतन्तोः शिष्यं कौत्सं नृपती रघुर्निषिध्य निर्वार्य । हे विद्वन् ! त्वया गुरवे प्रदेयं वस्तु किं किमात्मकं कियत्किपरिमाणं वा । इत्येवं तं कौत्समन्वयुक्ता पृच्छत् । 'प्रश्नोऽनुयोगः पृच्छा
२०
च' इत्यमरः || १८ ||
अन्वयः -- एतावत् उक्त्वा, प्रतियातुकामम्, महर्षेः, शिष्यम्, नृपतिः, निषिध्य, हे विद्वन्, ध्वया, गुरवे, प्रदेयम्, वस्तु, किम्, वा, क्रियत्, इति, तम्, अन्वयुक्त । वाच्य० -- प्रतियातुकामः, महर्षेः शिष्यः नृपतिना, प्रदेयेन, वस्तुना, केन, वा, कियता, 'भूयते' इति, सः अन्वयुज्यत ।