________________
चतुर्थ. सर्गः कीचकध्वनिः, कीचकध्वनेः हेतवः कीचकध्वनिहेतवः । गङ्गायाः शीकराः गङ्गाशीकरा: गङ्गाशीकरा एषां सन्तीति गङ्गाशीकरिणः ।
अभि०-पर्वतारोहणसमये रघोः श्रम, शुष्कभूर्जपत्रेषु मर्मरध्वनिमन्तः, कीचकाख्यवेणुषु कर्णाभिरामं ध्वनि जनयन्तो गङ्गाम्भःशीतला वायवः अपनीतवन्तः।
हिन्दी--हिमालय पर्वत पर चढ़ते समय रघु के परिश्रम को, सूखे भूजपत्रों में मर्मरध्वनि करनेवाले तथा कीचक नाम के बांसों में मनोहर शब्द उत्पन्न करते हुए गंगा के शीतल वायु ने, दूर किया ।।७३।।
विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः।
दृषदो बासितोत्सङ्गा निषण्णमृगनाभिभिः ॥७४॥ सब्जीविनी-सैनिकाः सेनायां समवेताः प्राग्वहतीयष्ठक्प्रत्ययः । नमेन रूणां सुरघुनागानां छायासु निषण्णानां दृषदुपविष्टानां मृगाणां कस्तुरीमृगाणा नाभिभिर्वासितोत्सङ्गाः सुरभिततला हषदः शिला अध्यास्याधिष्ठाय । 'मधिशीङ स्थासां कर्म' इति कर्म । दृषत्स्वधिरुह्येत्यर्थः । विशश्रमुर्विश्रान्ताः ॥४॥
अन्वयः-सैनिकाः, नमेरूणाम्, छायासु निषण्णमृगनाभिभिः वासितो. सङ्गाः, हषदः, अध्यास्य, विशश्रमुः ।
वाच्य-सैनिकः हषदः, अध्यास्य विशश्रमे ।
व्याख्या-सैनिकाः = सेनापुरुषाः। नमेरूणाम् =सुरपुन्नागनामकवृक्ष. विशेषाणाम् । छायासु = अनातपेषु । निषण्णाः=स्थिता ये मृगाः हरिणाः कस्तूरीमगा इत्यर्थः । इति निषण्णमगाः, तेषां नाभयः नाभिप्रदेशाः, तैः । वासिताः = सुर भिताः, उत्सङ्गाः = मध्यभागा यासां तादृशी: । दृषदः=शिला. प्रदेशान् । अध्यास्य = अधिष्ठाय । विशश्रमः= श्रममपनीतवन्तः ।
समा०-निषष्णाश्च ते मृगाश्च निषण्ण मृगाः, निषण्णमृगारणां नाभयः निषण्णमृगनाभयः, ते: निषण्णमृगनाभिभिः । वासिताः उत्सङ्गाः यासां ता वासितोत्संगाः, ता: वासितोत्संगाः।
अभि०-रघुसैनिक मेरुवृक्षतलेषु कस्तूरीमृगनाभिस्थकस्तूरीगन्धवासिततलभागेषु प्रस्तरेषु अधिष्ठाय पर्वतारोहणजनितः श्रमः दूरीकृतः ।