________________
रघुवंशमहाकाव्ये शिरों को फाट-काट कर पृथ्वी को ऐसा ढंक दिया जैसे कि वह मधुमक्खियों के खत्तों से ढकी हो ॥६॥
अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः ।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥६४॥ सञ्जीविनी-शेषा हतावशिष्टा अपनीतशिरस्त्राणाः प्रपसरितशीषंण्याः । सन्तः । 'शीर्षकम् । शीर्षण्यं च शिरस्त्रे' इत्यमरः । शरणागतलक्षणमेतत् । तं रघु शरणं ययुः । तथाहि महात्मनां संरम्भः कोप: "संरम्भः संभ्रमे कोपे" इति विश्वः । प्रणिपातः प्रणतिरेव प्रतीकारो यस्य सः । हि महतां परकीयमौद्धत्य. मेवासह्य न तु जीवितमिति भावः ॥६४।।
अन्वयः-शेषाः, अपनीतशिरस्त्राणाः, तम्, शरणम् , ययुः हि, महात्मनाम्, संरम्भः, प्रणिपातप्रतीकारः, भवति ।
वाच्य --शेणैः, अपनीतशिरस्त्राणैः, सः, शरणम्, यये, महात्मनाम्, संरम्भेण, प्रणिपातप्रतीकारेण, भूयते ।।
व्याख्या-शेषा: = हतावशिष्टाः । अपनीतः-अपसारितः, शिरस्त्रारण:शिरःकवचः गैस्तेऽपनीतशिरस्त्राणाः सन्तः । तम्=रघुम् । शरणम् = रक्षकम् 'शरणं गृहरक्षित्रोः' इत्यमरः । ययुःप्रापुः । हि-यतः । महान् आत्मा येषां ते महात्मानः, तेषाम् महात्मनाम् । संरम्भ:- कोपः । प्रणिपातः- प्रणिपतनमेव प्रतीकार; = प्रत्युपायो यस्य सः प्रणिपातप्रतीकारः, भवति ।
समा०--अपनीतं शिरस्त्राणं गैस्ते अपनीतशिरस्त्राणाः । महान् प्रात्मा येषां ते महात्मानः, तेषां महात्मनाम् । प्रणिपात: प्रतीकारः यस्य सः प्रणिपातप्रतीफारः।
अभि:-ये तु मृतेभ्योऽवशिष्टा प्रासन् ते स्वशिरस्त्राणमुत्तार्य रघु शरणं गता बभूवुः । तेनापि ते मुक्ताः । यतः महात्मनां क्रोधः प्रणिपातावधिर्भवति ।
हिन्दी-जो पारसी राजामों के मरने से बच गये वे अपने-अपने टोपों को उतार कर रघु की शरण में आकर बच गये, क्योंकि महात्माओं का क्रोध प्रणाम करने से शान्त हो जाता है ॥६४॥
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥६॥