________________
रघुवंशमहाकाव्ये
भागमिव स्थितं सह्याद्रि यथेच्छमुपभुज्य तथैव प्रस्थितः यथा कश्चित् कामी कामुक्याः पीवरकुचयोः सम्मर्दनं कृत्वा निर्वस्त्रं नितम्बमुपभुज्यान्यतो याति ।
हिन्दी - रघु दक्षिण दिशा के स्तनों के समान स्थित मलय और दर्दुरनामक पर्वतों में इच्छानुसार विहार करके समुद्र के जल से दूर ही मुक्त, किसी विलासवती के वस्त्ररहित नितम्बभाग के समान स्थित सह्याद्रि का यथेच्छ उपभोग करके उसी प्रकार आगे बढे जैसे कि कोई कामी किसी कामुकी का चन्दनलिप्त कुच मर्दन कर पश्चात् वस्त्ररहित नितम्बभाग का भी उपभोग करके कहीं दूसरी जगह जाता हो ॥५१-५२॥
तस्यानी कैविसर्पद्विपरान्तजयोद्यतैः ।
४६
रामात्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः || ५३ ||
सञ्जीविनी – अपरान्तानां पाश्चात्यानां जय उद्यतैरुद्युक्तः । 'अपरान्तास्तु पाश्चात्यास्ते च सूर्यरिकादयः' इडि यादवः । विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः । ' अनीकं तु रणे सैन्ये' इति विश्वः । अर्णवो रामस्य जामदग्न्यस्यास्त्ररुत्सारितः परिसारितोऽपि सलग्न इवासीत् । सैन्यं द्वितीयोऽर्णव इवादृश्यतेति
भावः ।।५३||
अन्वयः - अपरान्तजयोद्यतः, विसर्पद्भिः, तस्य, अनीकैः, अर्णवः, रामास्त्रोत्सारितः, अपि, सालग्नः, इव आसीत् ।
अभूयत ।
वाच्य० - रामस्त्रोत्सारितेन, अपि, सह्यलग्नेन, इव, अर्णवेन, व्याख्या--- अपरान्तानां = पाश्चात्यानां, यो जयः = विजयः, अपरान्तजयः, तत्रोद्यतैः = उद्युक्तैः । विसर्पद्भिः = गच्छद्भिः । तस्य = रघोः । अनीकैः सैन्यैः । अर्णवः = सागरः, “सरस्वान्सागरोऽर्णवः" इत्यमरः । रामस्य = जामदग्न्यस्य, अस्त्रः - आयुधैः, उत्सारितः = परिसारितः । अपि सह्ये = सह्याद्री, लग्नः = संसक्तः । इव = यथा । आसीत् ।
समा० - अपरस्या अन्ताः अपरान्नाः, अपरान्तानां जयः, अपरान्तजयः अपरान्तजये उद्यताः अपरान्तजयोद्यताः तैः अपरान्तजयोद्यतैः । रामस्य अस्त्रम् रामास्त्रम्, रामास्त्रेण उत्सारितः रामास्त्रोत्सारितः । सह्ये लग्नः सालग्नः ।
अभि० - सह्याद्रेः पश्चिमदेशं गच्छन्त्या विपुलया रघुसेनया, परशुरामास्त्रेण दूरीकृतोऽपि समुद्रः पुनः सह्यपर्वतसक्त इव लक्ष्यते स्म । आ पर्वतात् समुद्रं यावत् सेनाविस्तार आसीदिति भावः ।