________________
चतुर्थः सर्गः समा०--निःशेषं वृष्टाः निवृष्टाः, निर्वृष्टाश्च ते लघवश्च निर्वृष्टलघवः, रो: निर्वृष्टलघुभिः । मुक्तं वर्त्म यस्य सः मुक्तवर्मा । दुःखेन सह्यते इति दुःसहः, सुष्ठु दुःसहः सुदुःसहः ।
अभि०-यथा वर्षणानन्तरं धवलजलदैः परित्यक्तमार्गो रविः स्वतीवकिरणर्लोक सन्तप्तं करोति तथैव तस्य रघोरपि राज्ञः प्रतापः सर्वासु दिक्ष प्रसृतः।
हिन्दी--पानी बरसने के पश्चात् हलके हुए मेघों ने जिसका मार्ग छोड़ दिया है ऐसे सूर्य और राजा रघु का प्रताप सब दिशाओं में फैल गया ।।१५॥
वार्षिक सञ्जहारेन्द्रो धनुजैत्रं रघुर्दधौ। __ प्रजार्थसाधने तौ हि पर्यायोद्यतकामुकौ ॥ १६ ॥ सञ्जीविनी-वर्षासु भवं वार्षिकम् । वर्षानिमित्तमित्यर्थः । 'वर्षाभ्यष्ठक्' इति ठक्प्रत्ययः । धनुः संजहार। रघुज॑त्रं जयशीलम् । जेतृशब्दात्तन्नन्तात् 'प्रज्ञादिभ्यश्च' इति स्वार्थेऽण्प्रत्ययः । धनुर्दधौ। हि यस्मात्ताविन्द्ररघू प्रजाना. मर्थस्य वृष्टिविजयलक्षणस्य साधनविषये पर्यायेणोद्यते काम के याभ्यां तो पर्यायोद्यतकार्मुको। 'पर्यायोद्यमविश्रमी' इति पाठान्तरे पर्यायेणोद्यमो विश्रमश्च ययोस्तो पर्यायोद्यमविश्रमौ । द्वयोः पर्यायकरणादवलेश इति भावः ॥ १६ ॥
अन्वयः--इन्द्रः, वार्षिकं, धनुः, सञ्जहार, रघुः, जैत्र, धनुः, दधी, हि, तो, प्रजार्थसाधने, पर्यायोद्यत कार्मुको, प्रास्ताम् ।
वाच्य०-इन्द्रेण वार्षिकं धनुः संजह,र घुरणा दधे, हि ताभ्यां पर्यायोद्यतकार्मुकाभ्याम्, अभावि ।
व्याख्या--इन्द्रः । वर्षासु भवं वार्षिक वर्षाकालिकं धनुः शरासनं,सञ्जहार =संहृतवान् । रघु: राजा। जैत्र जयशील, धनु: स्वचापं, दधौ = गृहीतवान् । हि-यतः, तो इन्द्र रघू । प्रजाया:-लोकस्य योऽर्थः प्रयोजनं तस्य साधने = विषये । पर्यायेण क्रमशः, उद्यते-उद्युक्त, कार्मुके=धनुषी ययोस्तादृशी प्रास्ताम् ।
समा०--प्रजानाम् अर्थः, प्रजार्थः प्रजार्थस्य साधनं प्रजार्थसाधनम्, तस्मिन् प्रजार्थ साधने । पर्यायेण उद्यते कार्मुके याभ्यां तो पर्यायोद्य तकार्मुको।
अभि० ---इन्द्रः शरदृतौ वर्षाकालिकं धनुः सञ्जहार, रघुस्तु लोकविजयाय' । धनु! हीतवान् । यतस्तो पर्यायेण स्वं स्वं धनुः गृहीत्वा प्रजाया अर्थसाधने वृष्टिरूपेण दिग्विजयेन च सर्वदा तत्परी प्रास्ताम् ।