________________
रघुवंश महाकाव्ये
तपतीति तपनः सूर्यः । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इत्यनेन ल्युट् प्रत्ययः । प्रतापात्संतापजननादन्वर्थः । तथैव स राजा प्रकृतिरञ्जनादन्वर्थ: सार्थक राजशब्दोऽभूत् । यद्यपि राजब्दो राजतेर्दीप्त्यर्थात्कनिन्प्रत्ययान्तो न तु रजेस्तथापि घातूनामनेकार्थत्वाद्रञ्जनाद्राजेत्यक्तं कविता ।। १२ ।।
अन्वयः -यथा, चन्द्रः प्रह्लादनात् अन्वर्थः प्रभूत, यथा, तपनः, प्रतापाद् 'अन्वर्थ:' तथा, एव सः राजा, प्रकृतिरञ्जनात् प्रन्वर्थः प्रभूत् । वाच्य० - यथा, चन्द्रेण, अन्वर्थेन, प्रभावि, यथा च तपनेन, प्रभावि, तथा, एव, तेन राज्ञा, अन्वर्थेन, प्रभावि ।
=
व्याख्या- यथा येन प्रकारेण | चन्द्रः = विधु: । प्रह्लादनात् चन्दयत्याह्लाद व्यतीति व्युत्पत्त्या श्राह्लादजनकत्वात् । श्रन्वर्थः = श्रनुगतार्थनामा, भूत = बभूव । यथा च तपनः = सूर्यः । प्रतापात् व्युत्पत्त्या संतापजननात् श्रन्वर्थः, अभूत् । तथैव सः प्रजायाः । यद्रञ्जनं = रागजननं तस्मात्, अन्वर्थः प्रभूत्
तपतीति तपनः, इति
=
: राजा रघुः । प्रकृतेः=
।
समा० - प्रकृतीनां रञ्जनं प्रकृतिरञ्जनम्, तस्मात् प्रकृतिरञ्जनात् । अभि०. ० - यथा लोकानामाह्लादकारकत्वात् चन्द्रः चन्द्रपदवाच्यः, यथा सन्तापजननात् तपनः तपनशब्दवाच्यः, तथैव प्रजायाः स्वस्मिन्ननुरागजननात् रघुरपि राजेतिशब्दवाच्योऽनुगतार्थ एवाभूत् ।
हिन्दी -- जैसे लोगों को प्रह्लाद पहुंचाने के कारण चन्द्र का नाम सार्थक हुधा तथा सन्ताप पहुँचने के कारण सूर्य का नाम तपन सार्थक हुआ, इसी प्रकार प्रजावर्ग में अनुराग उत्पन्न करने के कारण रघु को राजा ( रंजन करनेवाला ) कहना भी सार्थक ही हुआ ।। १२ ।।
कामं करणन्तिविश्रान्ते विशाले तस्य लोचने । चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥ १३ ॥ सब्जीविनी - विशाले तस्य रघोर्लोचने कामं करणन्तियोविश्रान्ते कर्णप्रान्तगते । चक्षुष्मत्ता तु । चक्षुः फलं त्वित्यर्थः । सूक्ष्मान्कार्यार्थान्कर्तव्यार्थान्दर्शयति प्रकाशयतीति तेन सूक्ष्मकार्यर्थिदर्शिना शास्त्रेणैव । शास्त्रं दृष्टिविवेकिनामिति भावः ॥ १३ ॥
अन्वयः - विशाले, तस्य लोचने, कामम्, कर्णान्तविश्रान्ते, 'प्रास्ताम्' तु चक्षुष्मत्ता, सूक्ष्मकार्यार्थदर्शिना, शास्त्रेण एव 'श्रासीत्' ।
•
१२
"