________________
चतुर्थः सर्गः समा०-न दृश्या प्रहश्या । छायाया मण्डलं छायामण्डलं, तेन लक्ष्यं छायामण्डललक्ष्यम्, तेन छायामण्डललक्ष्येण । पद्ममेव प्रातपत्रं, तेन पद्मातपत्रेण । सम्राजः कर्म साम्राज्यं,साम्राज्ये दीक्षितः साम्राज्यदीक्षितः,तं साम्राज्यदीक्षितम् ।
अभि-सिंहासनारूढं रघुमवलोक्य तत्तेजोविशेषेणाकृष्टा लक्ष्मीः स्वयम् महश्या सती प्रभापुञ्जानुमेयकमलच्छत्रेण तं सेवितवती ।
हिन्दी-सिंहासन पर विराजमान रघु को देख कर लक्ष्मी स्वयम् मदृश्य रूप से कान्तिमण्डल से अनुमान करने योग्य कमलरूप छत्र से उनकी सेवा करने में तत्पर हुई ॥१॥
परिकल्पितसान्निध्या काले काले च वन्दिषु ।।
स्तुत्यं स्तुतिभिराभिरुपतस्थे सरस्वती ॥ ६॥ सञ्जीविनी-सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु । नित्यवीप्सयो' इति वीप्सायां द्विवचनम्। वन्दिषु परिकल्पितसान्निध्या कृतसन्निधाना सती स्तुत्यं स्तोत्राहं तं रघुम् । प्राभिरदिनपेताभिः। 'धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः । स्तुतिभिः स्तोत्ररुपतस्थे । देवबुद्धया पूजितवतीत्यर्थः । देवतात्वं च 'नाविष्णुः पृथिवीपतिः' इति वा, लोकपालात्मकत्वाद्वेत्यनुसन्यम् । एवं च सति 'उपाद्देवपूजासंगतिकरण' इति वक्तव्यादात्मनेपदं सिद्ध्यति ॥ ६ ॥
अन्वयः-सरस्वती, च काले काले, वन्दिषु, परिकल्पितसान्निध्या, 'सती' स्तुत्यं तम्, अर्थ्याभिः, स्तुतिभिः, उपतस्थे।
वाच्य०-सरस्वत्या, परिकल्पितसान्निध्यया, सत्या स्तुत्यः सः उपतस्थे ।
व्याख्या-सरस्वती = वाग्देवता च = प्रपि, काले = समये-समये, योग्यसमयेष्वित्यर्थः, वन्दिषु स्तुतिपाठकेषु, परिकल्पितं = परिनिष्ठितं, सान्निध्यं = सामीप्यं यया सा कृतसंनिधानेत्यर्थः, स्तोतं योग्यः स्तुत्यस्तं-स्तवाह, तम = रघुम्, अर्थादनपेता: = प्रास्ताभिः = अर्थादनपेताभिः = शोभनार्थाभिरित्यर्थः, स्तुतिभिः = स्तुतिवचनैः, उपतस्थे = उपस्थानं चकार । __समा०-परिकल्पितं सान्निध्यं यया सा परिकल्पितसान्निध्या ।
अभि०-वाचामधिष्ठात्री देवी सरस्वत्यपि योग्यप्रसङ्गेषु वन्दिजनमुग्ववर्तिनी भूत्वा, स्तवनाहं रघु, शोभनार्थः स्तोत्र: सेवितवती ।
हिन्दी-सरस्वती देवी भी उचित अवसरों पर वन्दिजनों में स्थित होकर