________________
३८
रघुवंशमहाकाव्ये समा० - देवानामिन्दः देवेन्द्रः, तत्सम्बुद्धौ देवेन्द्र ! मनीषा एषामस्तीति मनीषिणः, तैः मनीषिभिः । मखस्य अंशाः मखांशाः, मखांशान् भजन्तीति मखांशभाजः, तेषां मखांशभाजाम् । अजस्रं दीक्षा अजस्रदीक्षा, अजस्रदीक्षायां प्रयतः अजस्रदीक्षाप्रयतः, तस्य अजस्रदीक्षाप्रयतस्य । ममः गुरुः मद्गुरुः, तस्य मद्गुरोः । क्रियायाः बिधातः क्रियाविधातः, तस्मै क्रियाविधाताय ।
अभि०-यभागभुजां मध्ये त्वमेव प्रथमः भूत्वा निजतृप्तिकारणं यशं विहन्तुं अश्वापहरणरूपकर्मणि कथं प्रवृत्तोऽसि ।।
हिन्दी-हे इन्द्र ! यज्ञ का भाग सबसे पहले तुमको ही मिलता है, ऐसा मनीषियों का कहना है, फिर भी निरन्तर यज्ञ करने में प्रयत्नशील मेरे पिता के यज्ञ में न जाने तुम क्यों विघ्न डाल रहे हों ।। ४४ ।।
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा। स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥४५॥
सञ्जीविनी-त्रयाणां लोकानां नाथस्त्रिलोकनाथः । 'तद्धितार्थोत्तरपदसमाहारे च' इत्यनेनोत्तरपदसमासः । तेन त्रैलोक्यनियामकेन दिव्यचक्षुधाऽतीन्द्रियार्थद शिना त्वया मखद्विषः क्रतुविघातकाः सदा नियम्या ननु शिक्ष्याः खलु । स त्वं धर्मचारिणां कर्मसु क्रतुष स्वयमन्तरायो भवसि चेत् विधिर नुष्ठानं च्युतः क्षतः । लोके सत्कर्मकथैवास्तमियादित्यर्थः ।। ४५ ।।
अन्वयः-त्रिलोकनाथेन, दिव्यचक्षुषा, त्वया, मखद्विषः, सदा, नियम्याः, ननु, सः त्व, धर्मचारिणां, कर्मसु, स्वयम् , अन्तरायः, मवसि, चेत् , "तर्हि" विधिः च्युतः।
वाच्य-त्रिलोकनाथो दिव्य चक्षुस्त्वं मखद्विषः सदा नियमयति ननु, तेन त्वया धर्मचारिणां कर्मसु अन्तरायेण भूयते चेत् , “तहिं" विधिना च्युतेन भूयेत।
व्याख्या-त्रयाणां लोकानां नायस्त्रिलोकनाथस्तेन त्रिलोकनाथेन = त्रैलोक्यस्वामिना। दिव्यानि =अलौकिकानि, चक्षेषि - नेत्राणि यस्य स दिव्यचक्षुस्तेन दिव्यचक्षुषा = अतीन्द्रियार्थदर्शिना । त्वया = इन्द्रेण । मखान् = यशान् द्विषन्ति, इति मखद्विषः = यशविघातकाः । सदा = सर्वदा । नियम्याः=शिक्ष्याः । ननु = निश्चयेन। सः यशद्विषां नियन्ता त्वं धर्म चरितुं शीलं येषान्ते धर्मचारिणस्तेषां धर्मचारिणां=सुकृतकारिणां। कर्मसु = क्रियासु । स्वयम् - आत्मना । अन्तरायः विघ्नः । भवसि - वर्तसे । चेत् = यदि, "तहिं" विधिः = धर्मानुष्ठानं: च्युतः - नष्टः । 'भवेदिति शेषः ।
समा०- त्रयाणां लोकानां नाथः त्रिलोकनाथः, तेन त्रिलोकनायेन । दिव्यं चक्षः यस्य स: दिव्यचक्षुः, तेन दिव्यचक्षुषा। मखान् द्विषन्तीति मद्विषः । धर्म चरन्तीति धर्मचारिणः, तेषां धर्मचारिणाम् । ___ अभि०–त्रिलोकनियामकेन त्वया यज्ञादिसत्कार्थविधातका दण्डनीयाः, एवं स्थिते यदि भवान् मे पितुर्यविनाशं करिष्यति तहिं धर्मकथैव नष्टा भवेल्लोके ।