________________
तृतीयः सर्गः
३५
वाच्य० - तेन कुमारसैन्येन सपदि विस्मितेन 'सता' स्थितम् । अथ यदृच्छयागतां नन्दिनीं
10
वशिष्ठधेनुं च ददर्श ।
व्याख्या - तत् = पूर्वोक्तं । कुमारस्य = रवोः सैन्यं = सेना इति कुमारसैन्यं । सपदि = सद्यः, विषादेन = श्ष्टनाशकृतेन मनोभंगेन, लुप्ता = नष्टा, प्रतिपत्तिः = कर्तव्यज्ञानं यस्य तत् विषादलुप्तप्रतिपत्ति । विस्मितं = यज्ञीयतुरंगादर्शनस्याकस्मिकत्वेनाश्चर्ययुक्तं सत्, स्थितं = तस्थौ । अथ = पश्चात्, श्रुतः = प्रसिद्धः, प्रभावः = वरप्रदानरूपः यस्याः सा श्रुतप्रभावा । यदृच्छया = स्वेच्छया, आगता = सम्प्राप्ता, नन्दिनो = नन्दिनीनाम्नी, वसिष्ठस्य = महर्षेः, धेनुः = गौः इति वसिष्ठधेनुः च अविलम्बेनेत्यर्थः । ददृशे = अदृश्यत 'सर्वैः सैनिकैः' इति शेषः ।
समा० – कुमारस्थ सैन्यं कुमार सैन्यम् । विषादेन लुप्ता प्रतिपत्तिः यस्य तत् विषादलुप्तप्रतिपत्ति । श्रुतः प्रभावः यस्याः सा श्रुतप्रभावा । बसिष्ठस्य धेनुः वसिष्ठधेनुः ।
अभि० – सहसा घोटकस्य तिरोधानेन चकिते कर्तव्यज्ञानशून्ये ससैन्ये रघौ नन्दिनीनाम्नी वसिष्ठधेनुः स्वेच्छया तत्रागता ।
हिन्दी - घोड़े के सहसा गायब हो जाने से कर्तव्यज्ञान से शून्य आश्चर्य में डूबी रघु की सेना तुरन्त रुक गई और उसी क्षण प्रभावशाली वसिष्ठ ऋषि की नन्दिनी दिखाई दी जो कि स्वेच्छा से घूमती फिरती आ गई थी ॥ ४० ॥
तदंगनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् । अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव मावेषु दिलीपनन्दनः ॥ ४१ ॥
संजीविनी - सतां पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन तस्या नन्दिन्या यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम् । मूत्रमित्यर्थः । तेन लोचने प्रमृज्य शोधयित्वा । अतीन्द्रि येष्विन्द्रियाण्यतिक्रान्तेषु । 'अत्यादयः क्रान्ताद्यर्थं द्वितीया' इति वक्तव्यात् समासः । द्विगुप्राप्तापन्नालं पूर्व गतिसमासेषु परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिम्नत्वम् । भावेष्वपि वस्तुषूपपन्नदर्शन: संपसाक्षात्कारशक्तिर्बभूव ॥ ४१ ॥
अन्वयः -- सतां, पुरस्कृतः, दिलीपनन्दनः पुण्येन, तदङ्गनिस्यन्दजलेन, लोचने, प्रमृज्य, अतीन्द्रियेषु, भावेषु अपि उपपन्नदर्शनः बभूव ।
,
9
वाध्य० - पुरस्कृतेन दिलीपनन्दनेन उपपन्नदर्शनेन बभूवे ।
व्याख्या – सतां = सज्जनानां पुरस्कृतः पूजितः । नन्दयतीति नन्दनः, दिलीपस्य = राशः, नन्दनः = पुत्रः इति दिलीपनन्दनः रघुरित्यर्थः । पुण्येन = पवित्रेण तस्या: == नन्दिन्याः, अंगं = शरीरमिति तदंगं तस्य निस्यन्दः = द्रव एव जलं = सलिलमिति तेन तदंगनिस्यन्दजलेन मूत्रेणेत्यर्थः । लोचने = नेत्रं, प्रमृज्य = शोधयित्वा प्रक्षाल्येति यावत् । इन्द्रियाणि = अक्षापि, अतिक्रान्ताः = अतीताः इति अतीन्द्रियास्तेषु अतीन्द्रियेषु । भावेषु = पदार्थेषु । अपिः = समुच्चये । उपपन्नं = सम्पन्नम्, दर्शनं = साक्षात्कारशक्तिर्यस्य स उपपन्नदर्शनः, बभूव = जातः ।
I
समा० – दिलीपस्य नन्दनः दिलीपनन्दनः । तस्या भङ्गं तदङ्गम्, तदङ्गस्य निस्यन्द