________________
३२
रघुवंश महाकाव्ये
नूतनः, अवतारः = अवतरणं यस्य तत् नत्रावतारम् । उत्पलं = कुवलयम् कमलविशेषमित्यर्थः । श्व == यथा । अंशेन =भागेन । अगच्छत् = अद्रजत् ।
,
समा०-- गुणान् अभिलपतीति गुणाभिलाषिणी । मूलञ्च तद् आयतनश्च मूलायतनम्, नरेन्द्र एव मूलायतनं नरेन्द्र मूलायतनम् तस्मात् नरेन्द्र मूलायतनात् । न विद्यते अन्तरं यस्य तत् अनन्तरं तत् अनन्तरम्। युवराज इति मंज्ञा अस्य संजाता इति युवराजसंज्ञितं, तत् युवराजसंज्ञितम् । आत्मनः पदम् आस्पदं ( निपातितः ) स इत्यास्पदं तदास्पदम्, तद् तदा स्पदम् । नवः अवतारः यस्य तद् नवावतारम्, तत् नवावतारम् |
अभि - त्रिनयादिगुणैराकृष्टा राज्यलक्ष्मीः पुरातनं वृद्ध दिलीपं विहाय नूतनं युवराज रघुमंशेन तथैवागच्छत्, यथा सौरम्यादिगुणाकृष्टा पद्माश्रया लक्ष्मीः चिरोत्पन्नं पुराणं कमलं परित्यज्य नवीनं कमल गच्छति ।
के
हिन्दी - जिस प्रकार सौरभ्यादिगुणों से आकृष्ट राज्यलक्ष्मी तथा कमलनिवासिनी लक्ष्मी, जैसे पुराने मुरझाए कमल को छोड़कर नये कमल पर चली जाती है उसी प्रकार रघु विनयादि गुणों से आकृष्ट राज्यलक्ष्मी, पुराने वृद्ध राजा दिलीप को छोड़कर नवीन युवराज के पास १ अंश से चली गई ।। ३६ ।।
विभावसुः सारथिनेव वायुना घनव्यपायेन गमस्तिमानिव ।
बभूव तेनातितरां सुदुःसह: कटप्रभेदेन करीव पार्थिवः ।। ३७ ।
संजीविनी - सारथिना सहायभूतेन । एतद्विशेषणमुत्तर वाक्येष्वप्यनुषजनीयम् । वायुना विभावसुर्वह्निरिव । 'सूर्यवह्नी विभावसू' इत्यमरः । घनव्यपायेन शरत्समयेन सारथिना गभस्तिमान्सूर्य इव । कटो गण्ड: । 'गण्डः कटो मदो दानम्' इत्यमरः, तस्य प्रमेदः स्फुटनम् । मदोदय इत्यर्थः तेन करीब । पार्थिवो दिलीपस्तेन रघुणातितरामत्यन्तं सुदुःसहः सुष्ट्वसह्यो बभूव ||३७||
"
अन्वयः - :- सारथिना वायुना, विभावसुः इव, घनव्यपायेन, गभस्तिमान्, इव, कटप्रभेदेन करी इव, पार्थिवः, तेन अतितराम्, सुदुःसहः, बभूव ।
वाच्य० - विभावसुना इव, गमास्तमता इत्र, करिणा श्व, पार्थिवेन, सुदुःसहेन बभूवे । ब्याख्या - सारथिना = सहायभूतेन वायुना = पवनेन विभावसुः = अग्निः इव = यथा । घनानां = मेघानां व्यपाय: = नाशः यत्र, तेन घनव्यपायेन = शरत्कालेनेत्यर्थः । गभस्तयोऽस्य सन्तीति गभस्तिमान् = सूर्य इव । कटस्य गण्डस्य, प्रमेदः = प्रस्फुटनं तेन कटप्रभेदेन गण्डस्थल स्फुटनेनेत्यर्थः । करी = गजः इव । पृथिव्या ईश्वरः पार्थिवः = दिलोपः । सारथिना = सहायभूतेन तेन = रघुणा । अतितराम् == अत्यन्तं । सुतरां दुःखेन सह्यत इति सुदुःसहः = सोढुमशक्यः । बभूव = जातः ।
समा० - घनानां व्यपायः यस्मिन् सः घनव्यपाय:, तेन घनव्यपायेन । गभस्तयः अस्य सन्तीति गभस्तिमान् । कटस्य प्रभेद: कटप्रभेदः तेन कटप्रमेदेन । करः 'शुण्डा' अस्यास्तीति करी | पृथिव्या ईश्वरः पार्थिवः ।