________________
तृतीयः सर्गः अभि०-यथा प्रातःकाले क्षीणप्रकाशेन चन्द्रेण युक्ता विरलनक्षत्रा रात्रिः भाति, तथैव पाण्डुवर्णमुखेनोपलक्षिता कृशशरीरतया परिमितभूषणा सुदक्षिणाऽपि शोभते स्म ।
हिन्दी-कृश दुर्बल शरीर के कारण दो एक आभूषण पहनी हुई, तथा पीले मुख से सुशोभित सुदक्षिणा, उस रात्रि के समान दीख पड़ती थी, जिसमें भोर में थोड़े से तारे बचे रहते हैं और चन्द्रमा भी फीका पड़ जाता है ॥२॥
तदाननं मृत्सुरमि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ।
करीव सिक्तं पृषतैः पयोमुचां शुचियपाये वनराजिपल्बलम् ॥ ३ ॥ सम्जीविनी--क्षितोश्वरो दिलीपः रहसि मृत्सुरभि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपानाय तृप्ति नाययौ। कः कमिव । शुचिव्यपाये ग्रीष्मावसाने । “शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते । ग्रीष्मे हुंतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि" इति विश्वः ! पयोमुची मेघानां पृषतैविन्दुभिः । 'पृषन्ति विन्दुपृषताः' इत्यमरः। सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव। अत्र करिवनराजिपल्वलानां कान्तकामिनोवदनसमाधिरनुसंधेयः । गर्भिणीनां मृद्भक्षणं लोकपसिद्धमेव । एतेन दोहदाख्यं गर्भलक्षणमुच्यते ॥ ३ ॥
अन्वयः-क्षितीश्वरः, रहसि, मृत्सुरमि, तदाननम् , उपाघ्राय, तृप्ति, न, आययौ, अचिव्यपाये, पयोमुचां, पृषतैः, सिक्तं, वनराजिपल्वलम् , "उपाघ्राय" करी, इव।
घाच्य०-क्षितीश्वरेण तृप्तिः नायये, करिणा इव ।
व्याख्या-क्षितेः पृथिव्याः, ईश्वरः= स्वामी, इति क्षितीश्वरः=दिलोपः। रहसि = एकान्ते, मृदा = मृत्तिकया, सुरभि = सुगन्धि, तत् मृत्सुरभि । तस्याः सुदक्षिणायाः, आननं = मुखमिति तदानन, “आननं मुखमि"त्यमरः । उपाघ्राय=घात्वा, तृप्ति सन्तोषं, न आययौनहि प्राप । “कः कमिव" शचेः-ग्रीष्मस्य, व्यपायः=नाशस्तस्मिन् , शुचिव्यपाये। पयांसि मुञ्चन्तीति पयोमुचस्तेषां पयोमुचां = मेघाना, पृषतः = बिन्दुमिः, सिक्तं = वृष्टम् , आर्द्राकृतमित्यर्थः । वनानाम् = अरण्यानां, राजिः = पङ्क्तिः, तस्याः पल्वलम् =अल्पजलाशयम् वनराजिपल्वलम् “पल्वलं चाल्पतरः" इत्यमरः। उपाघ्राय = घात्वा, करीवनगन हब = यथो।
समा०—क्षितेः ईश्वरः क्षितीश्वरः। मृदा सुरभि, तत् मृत्सुरभि । तस्या आननं तदा तदाननम् , तत् तदाननम् । शुचेः व्यपायः शुचिव्यपायः, तस्मिन् शुचिव्यपाये। पासि मुश्चन्तीति पयोमुचः; तेषां पयोमुचाम् । वनानां राजयः वनराजयः, वनराजीनां पल्वलं वनराजि. पल्बलम् , तत् वनराजिपल्वलम् । करः (शुण्डा ) अस्यारतीति करी। ___ अभि०-यथा वनगजः, ग्रीष्मावसाने मेघाम्बुकपः क्लिन्नमल्पजलाशयं घ्रात्वा तृप्ति न प्राप्नोति एवं दिलीपोऽपि एकान्ते मृत्सुरभि सुदक्षिणामुखमाघ्राय सन्तोषं न लेमे।
हिन्दी-राजा दिलीप, मिट्टी खाने से महारानी सुदक्षिणा का मुख जो सोन्धा हो गया था उसे एकान्त में बार-बार सूंघकर वैसे ही तृप्त नहीं होते थे जैसे गर्मी के अन्त में 9 Tम