________________
रघुवंशमहाकाम्ये
मधारयत्। स तस्था महिमां दृष्ट्वा समन्तादवकोर्य च ॥ समन्ततस्तु ता देवीमभ्यसिञ्चत पावकः सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥” इति । राशी सुदक्षिणा नरपतेदिलीपस्य कुलभू संततिलक्षपाय गुरुमिमहड्रिलोकपालानामनुभावस्तेजोभिरभिनिविष्टमनुप्रविष्टं गर्भमाधत्त । दधावित्यर्थः अत्रमनु:-'अष्टानां लोकपालानां वपुर्धारयते नृपः' इति अत्र आधत्त इत्यनेन स्नीकर्तृकधारणमात्र मुच्यते । तथा च मन्त्रे दृश्यते-'यशेयं पृथ्वी माताना गर्भमादधे। एव त्वं गर्भमाधेहि दशमे मारि सूतवे ।।" इत्याश्वलायनाना सीमन्तमन्त्रे स्त्रीव्यापारधारण आधानशब्दप्रयोगदर्शनादिति । मालिनी वृत्तमेतत् । तदुक्तम्-"ननमयययुतेयं मालिनी भोगिलोकः" इति लक्षणात् ।। ७५ ।।
अन्वयः-अथ, द्यौः, अत्रेः नयनसमुत्थं, ज्योतिः, इव, सुरसरित् , वह्निनिष्ठयतम् , ऐशं तेजः श्व, राशी, नरपतिकुलभूत्यै, गुरुमिः, लोकपालानुभावः अभिनिविष्टं गर्भम् , आधत्त । __ वाच्य-दिवा ज्योतिरिव, सुरसरिता तेज इव, राश्या अभिनिविष्टो. गर्भ आधीयत ।
व्याख्या-अथ = अनन्तरं, द्यौः=सुरवम, अत्र:=महर्षेः, नयनयोः नेत्रयोः, समुत्यम् - उत्पन्नं, ज्योतिः= चन्द्रम् , इव = यथा, सुरसरित् = गङ्गा, वहिना= अग्निना निष्ठ्यूतं = क्षिप्तम् , ईशस्येदं तत् , ऐशं ईशसम्बन्धि, शैवमित्यर्थः, तेजः = रेतः ( स्कन्दम् ) इव, राशी = सुदक्षिणा, नरपतिकुलभूत्य =राजवंशाभिवृद्धये, गुरुभिः = श्रेष्ठः, लोकपालानाम् = अष्टदिगीशानाम् , अनु. मावाः = अंशास्तैः लोकपालानुमावः, अमिनिविष्टम् = अनुप्रविष्टम् , गर्भ = भ्रूणम् , आधत्त = दधार ॥ ___समा०-समुतिष्ठतीति समुत्थम् , नयनयोः समुत्थं नयनसमुत्थम् , तत् नयनसमुत्थम् । सुराणां सरित् सुरसरित् । वहिना निष्ठयतं वह्निनिष्ठ्यूतम् , तत् वह्निनिष्ठ्युतम् । ईशस्येदमैशम् , तत् ऐशम् । नराणां पतिः नरपतिः नरपतेः कुलं नरपतिकुलम् नरपतिकुलस्य भूतिः नरपतिकुलभूतिः, तस्यै नरपति. कुलधूत्यै। लोकं पालयन्तीति लोकपालाः, लोकपालानाम् अनुमावाः तैः लोकपालानुभावः ।
भमि०-यथा चौः चन्द्रम् , गङ्गा च शवं तेजः दधार, तथैव दिलीपभार्या सुदक्षिणापि दिलीपस्य वंशरक्षाय गर्भ धृतवती ।।
हिन्दी-जिस प्रकार अत्रि महर्षि के नेत्रों से निकली हुई चन्द्ररूपी ज्योति को आकाश ने धारण किया, और अग्नि से उमले हुए शिव के तेज को गंगा जी ने धारण किया, वैसे ही महारानी मुदशिया ने भी राजा दिलीप का वंश चलाने के लिए आठों दिशाओं के लोकपालों के प्रभावों से सम्मिलित गर्भ को धारण किया ।। ७५ ।। इति श्रीशाकरिधारादत्तशास्त्रिमिश्रविरचितायां 'छात्रोपयोगिनी' व्याख्यायां रघुवंशे
महाकाव्ये नन्दिनीवर प्रदानो नाम द्वितीयः सर्गः सम्पूर्णः ।