________________
रघुवशंमहाकाव्ये तमाहितोत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् ।
नेत्रेः पपुस्तृप्तिमनाप्नुवभिनवोदयं नामिवौषधीनाम् ॥ ७३ ॥ सञ्जीविनी-अदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्यं जनितदर्शनोत्कण्ठम् । प्रजार्थेन संतानार्थेन व्रतेन नियमेन कशितं कृशीकृतमहं यस्य तम् । नवोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगृध्नुमिनेत्रः। ओषधीनां नाथं सोममिव । तं राजानं पपुः। अत्यास्थया ददृशुरित्यर्थः। चन्द्रपक्षे अदर्शनं कलाक्षयनिमित्तम् : प्रजार्थ लोकहितार्थम्। व्रतं देवताभ्यः कलादाननियमः। "तं च सोमं पपुर्देवाः पर्यायेणानुपूर्वाः" इति व्यासः । उदय आविर्भावः । अन्यत्समानम् ।
अन्वयः-अदर्शनेन, श्राहितोत्सुक्यं, प्रजार्थव्रतकर्शिताङ्ग, नवोदयं, प्रजाः तृप्तिम् , अनाप्नुवद्भिः, नेत्रः, ओषधीनां, नाथं, सोमम् , इव, तं, पपुः ।
वाच्य०-आहितोत्सुक्यः प्रजार्थव्र तकर्शिताङ्गः नवोदयः, प्रजाभिः, ओषधीनां नाथः इव पपे। ज्याख्या-न दर्शनमदर्शनं तेन, अदर्शनेन= अनवलोकनेन, उत्सुकस्य भावः औत्सुक्यम् , आहितं = जनितम् , औत्सुक्यम् =उत्कण्ठा “प्रजासु" येन स तम् , प्रजा= सन्तानः, एव अर्थः = प्रयोजनं यस्य तत् प्रजार्थ च तद् व्रतं = गोसेवारूपं तेन कर्शितं = कृशीभूतम् , अङ्ग = शरीरं यस्य सः प्रजार्थव्रतकर्शिताङ्गस्तं तथोक्तम् । नव उदयो यस्य स नवोदयस्तं नवोदय = नूननाभ्युदयं, प्रजाः= लोकाः, तृप्ति = संतोषम् , अनाप्नु वद्भिः= अलममानैः, नेत्रैः= नयनैः, ओषधीनां = वनस्पतीनां, नाथं = स्वाभिनं, सोमं= चन्द्रम् , इव = यथा, तं- राजानं, पपुः=सतृष्यमवलोकयामासुः । "चन्द्रपक्षे” अदर्शनेन = कलाक्षयनिमित्तादर्शनेन, प्रनार्थव्रतकशितांगं = लोकहितार्थ व्रतं देवेभ्यः कलादाननियमः, तेन कृशीभूतगात्रं नवोदय = नवीनाविर्भावम् , सोममिति, शेषं तुल्यम् ।। ७३ ।।
समा०-न दर्शनम् अदर्शनम् , तेन अदर्शनेन । उत्सुकस्य भावः औत्सुक्यम् , आहितम् औत्सुक्यं येन स आहितौत्सुक्यः, तम् आहितोत्सुक्यम् । प्रजेव अर्थः यस्य तत् प्रजार्थम्, प्रजार्थश्च तत् व्रतश्च प्रजार्थव्रतम् , प्रजार्थव्रतेन कशितानि अङ्गानि यस्य सः तं प्रजार्थव्रतकर्शिताङ्गम् । नवः उदयो यस्य सः तं नवोदयम् । न आप्नुवन्ति अनाप्नुवन्ति ( शत्रन्तम् ) तैः अनाप्नुवद्भिः।
अभि०-जनाः, गोसेवारूपव्रतेन कृशीभूतगात्रं दिलीपं सतृप्पः नेत्रैः द्वितीया चन्द्रमिवावलोकयामासुः।
हिन्दी--इतने दिनों से राजा को न देखने के कारण अतीव उत्सुक प्रजा ने, पुत्र के लिये गो सेवारूपव्रत से दुर्वल और वरप्राप्तिरूप नूतन अभ्युदयवाले राजा को अतृप्त सतृष्प नेत्रों से ऐसा देखा, जैसे कलाक्षय के बाद नवोदित द्वितीया के चन्द्रमा को देखते हैं ॥ ७३ ॥
पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेधुरमाससञ्ज ॥ ७४ ॥ सब्जीविनी-पुरः पुरीरसुराणां दारयतोति पुरंदरः शक्रः । “पृ:सर्वयोर्दारिसहोः” इति खच्प्रत्ययः । “वाचंयमपुरंदरौ च" इति मुमागमो निपातितः, तस्य श्रीरिव श्रीर्यस्य स नृपः पौररभिनन्ध. मानः । उत्पताकमुच्छिनध्वजम् 'पताका वैजयन्ती स्यात्केतनं धजमसियाम्' इत्यमरः । पुरं प्रविश्य