________________
द्वितीयः सर्ग:
४५ ''उपक्रोशो जुगुप्सा च कुस्सा निन्दा च गहणे' इत्यमरः । 'ज्योस्नातमिस्रा" इत्यादिना मलीमसशब्दो निपातितः । 'मलीमसं तु मलिनं कच्चरं मलक्षितम्' इत्यमरः । तेः प्रायैर्वा किम् । निन्दितस्य सर्व व्यर्थमित्यर्थः । एतेन 'एकातपत्रम्' इत्यादिनोवतेन श्लोकद्वयेनोक्तं प्रत्युक्त मिति वेदितव्यम् ।। ५३ ॥
अन्धयः-उदग्रः, क्षत्रस्य, शब्दः, क्षतात् , त्रायते, इति, "व्युत्पत्या" भुवनेषु, रूढः, किल तद्विपरीतवृत्तः, राज्येन किम् , उपक्रोशमलीमसैः, प्राप्पैः, वा, किम् ।
वाच्य०-उदग्रेण क्षत्रस्य शब्देन "भूयते"। व्याख्या-उदग्रः- उन्नतः, क्षत्त्रस्य =क्षत्रवर्णस्य, शब्दः = वाचकः, चतात् = नाशात् , त्रायते = रक्षति, इति व्युत्पत्त्या, भुवनेषु = लोकेषु, रूढः=प्रसिद्धः, किलेति निश्चये। तस्य = क्षत्रशब्दस्य, विपरीता= विरुद्धा, वृत्तिः= व्यापारो यस्य तस्य तद्विपरीतवृत्तेः, राज्येन = राजभावेन, किम् = किम्प्र. बोजनम् , न किमपि प्रयोजनमित्यर्थः, उपक्रोशेन = निन्दया, मलीभसामलिनास्तैः, उपक्रोशमली. मसैः प्राणैः प्रसुमिः, वा= अथवा, किम्प्रयोजनम् , न किमपीति भावः। निन्दितस्य सर्व व्यर्थमेवेति भावः ।
समा०-क्षतात् वायते इति क्षत्रः तस्य क्षत्रस्य । राशः मावः कर्म वा राज्यम् , तेन राज्येन । तस्य विपरीता वृत्तिः यस्य सः तद्विपरोतवृत्तिः, तस्य तद्विपरीतवृत्तेः। उपक्रोशेन मलीमसाः उपक्रोशमलीमसाः, तैः उपक्रोशमलीमसैः।
अमि०-संसारे विपद्ग्रस्तस्य रक्षक एव वस्तुतः क्षत्रियः, अतः स्वधर्माचरपरहितस्य क्षत्रियस्य राज्यं बोवनश्च निन्दिततया व्यर्थमेव ।
हिन्दी-उन्नत क्षत्रिय जाति वाचक क्षत्र शम्, 'विपत्ति से रक्षा करनेवाला' इस व्युत्पत्ति से संसार में प्रसिद्ध है, अत: इस शब्दार्थ के अनुसार आचरण न करनेवाले पुरुष के राज्ये से या दुष्कोति से मलिन हुये उसके प्राणों से क्या लाम, अर्थात् वे दोनों ही व्यर्थ हैं ॥५३॥ 'अथैकधेनोः' इत्यत्रोत्तरमाह -.
कथं नु शक्योऽनुनयो महर्विश्राणनाच्चान्यपयस्विनीनाम् ।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥ ५४ ॥ सजीविनी-अनुनयः क्रोधापनयः, चकारो वाकारार्थः, भहरनुनयो वान्यासा पयस्विनीनां दोग्ध्रीयां गवां विश्राणनाहानात् । 'त्यागो विहापितं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणम्' इत्यमरः । कथं नु शक्यः ? न शक्य इत्यर्थः। अत्र हेतुमाह-इमा गां सुरभेः कामधेनोः 'पञ्चमी विम. क्तेः" इति पञ्चमी । अनूनामन्यूनामवेहि जानीहि । तहिं कथमस्याः परिभवोऽभूदित्याह । रुद्रौजसेति । अस्यां गवि स्वया कर्ता प्रहृतं तु प्रहारस्तु । नपुंसके मावे क्तः । रुद्रोजसेश्वरसामध्यन । न तु स्वय. मित्यर्थः । “सप्तम्यधिकरणे च" इति सप्तमी ।। ५४ ॥
अन्धयः-महर्षेः, अनुनयः, च, अन्यपयस्विनीनां, विश्राणनात् , कथं, नु, शक्यः, इमां, सुरमेः, बनूनाम् , अवेहि, अस्यां, त्वया, प्रहृतं, तु, रुद्रौजसा।
वाच्य०-अनुनयेन, शक्येन "भूयते", इयम् , अनूना, "स्वया" अवेयतां त्वं रुद्रोजसा प्रदतवान्।