________________
द्वितीयः सर्गः
समा०-- अपुत्रः पुत्रः सम्पद्यमानः कृतः पुत्रीकृतः वृषमो त्रजे यस्य सः वृषभध्वजः, तेन वृषमध्वजेन । हेम्नः कुम्भ: हेमकुम्मः, हेमकुम्मः एव स्वनौ हेमकुम्भस्तनौ ( इति देवदारुवृपक्षे ), हेमकुम्म व स्तनौ हेमकुम्भस्तनौ ( इति स्कन्दपक्षे ), हेमकुम्मस्तनाभ्यां निस्सृतानि तेषां हेमकुम्मस्तननिस्सृतानाम् । रसं नानातीति रसज्ञः ।
"
अभि-- हे राजन् असौ पुरोवर्ती देवदारुवृक्षः पार्वत्या स्वहस्तेन सेचितः अतोऽयं पार्वतीपरमेश्वरयोः, स्कन्दतुल्यं प्रेमपात्रमस्तीति ।
हिन्दी - हे राजन् तुम, सामने खड़े इस देवदारु को देख रहे हो । शिवजी ने इसे अपना पुत्र माना है । यह देवदारु कार्तिकेय की माता पार्वती जी के सोने के घटरूपी स्तनों से निकले हुये नक के स्वाद का जानने वाला है । स्कन्दपक्ष में सोने के घट के समान स्तनों से निकले हुए दूध के स्वाद का जानने वाला है ।। ३६ ।।
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता स्वगस्य । अथैदमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥ ३७ ॥
सन्जीविनी - कदाचित्कटं कपोलं कण्डूयमानेन घर्षयता । 'कण्ड्वादिभ्यो यक्' इति यक् । ततः शानच् । वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता । अथादेस्तनया गौरी। असुरास्त्रैरालीढं क्षतम् । सेनां नयतीति सेनानीः स्कन्दः । 'पार्वतीनन्दनः स्कन्दः सेनानीः' इत्यमरः । " सत्सूद्विष" इत्यादिनां क्विप् । तमिव एनं देवदारुं शुशोच ।। ३७ ।।
अन्वयः - कदाचित् कटं कण्डूयमानेन, वन्यद्विपेन, अस्य, स्वगू, उन्मथिता, अथ अद्र े, तनया, असुरास्त्रः आली, सेनान्यम्, इव, एनं, शुशोच ।
:
वाच्य० – कण्डूयमानो वन्यद्विपः अस्य, स्वचमुन्मथितवान् अथ अद्रेः तनयया सेनानीरिव एषः शुशुचे ।
व्याख्या - कदाचित् = जातु कस्मिंश्चित्समये, कटं कपोलं कण्डूयमानेन = वर्षयता, वन्यद्विपेन = वनगजेन, अस्य = देवदारोः, स्वग् = वल्कलम्, उन्मथिता = उत्पाटिता, अथ = पश्चात्, भद्रेः = हिमालयस्य, तनया = सुता पार्वती, असुरास्त्र : = दैत्यायुधैः, आलीढं झतम्, सेनां नयतीति
:
सेनानीः = स्कन्दः, तमिव, एनं = वृक्षम्, शुशोच = शोचितवती ।
समा० – वने भवः वन्यः, वन्यश्चासौ द्विपश्च वन्यद्विपः तेन वन्यद्विपेन । असुराणाम् अस्त्रापि असुराखापि, तैः असुराखैः ।
अभि० - एकदा केनापि वन्यगजेन स्वगात्रं कण्डूयता अस्य देवदारुवृक्षस्य वल्कलमुत्पाटितं, तद्दृष्ट्वा पार्वती दैत्यास्त्रैः क्षतं स्वपुत्रं स्कन्दं यथा शुशोच तथैव एनमपि शुशोच ।
हिन्दी - किसी समय, कपोल को रगड़ते हुये किसी जंगली हाथी ने इस देवदारु की छाल को कील दिया तो पार्वतीजी ने अपने पुत्र कार्तिकेय के असुराखों से घायल होनेपर जैसा शोक किया था वैसा ही शोक इसके लिये भी किया ।। ३७ ॥