________________
२०
रघुवंशमहाकाव्ये
अन्वयः-वशिष्ठधेनोः, अनुयायिनम् , वनान्तात् , आवर्तमानम् , तम् , वनिता निमेपालसपक्ष्म पङ्क्तिः ( सती ) लोचनाभ्याम् , उपोषिताभ्याम् , इत्र, पपौ।
पाच्य०-अनुयायो, वनान्तात् आवर्तमानः, सः, वनितया, पपे।
व्याख्या-वशिष्ठस्य = महषः, धेनुः = नन्दिनी, तस्याः वशिष्ठधेनोः । अनुयायिनम् = अनुचरं = सेवकमित्यर्थः । वनस्य = अरण्यस्य, अन्तः=प्रान्तः, तस्मात् वनान्तात् = वनैकदेशात् । आवतंते असो बावर्तमानस्तमावर्तमानम् = प्रत्यागतम् , तम् = राजानं दिलीपम् । बनिता= सुदक्षिणा निमेषेषु अलसा निमेषालसा । पक्ष्मणां पङ्क्तिः, इति पक्ष्मपङ्क्तिः, निमेषालप्ता पक्ष्भपङ्क्तिर्यस्याः सा तथोक्ता निनिमेषा सती। लोच्यते आभ्यामिति लोचने ताभ्यां लोचनाभ्याम् = नेत्राभ्याम् , करणाभ्यामिति यावत् । उपोषिताभ्याम् = कृतोपवासाभ्याम् , इवयथा, पपौ-पीतवती, अतितृष्णया ददशेत्यर्थः।
समा०-वशिष्ठस्य धेनुः वसिष्ठधेनु :, तस्याः वसिष्ठधेनोः। अनुयातीत अनुयायी, तम् अनुयायिनम। वनस्थ अन्त: वनान्त:, तस्मात् वनान्तात् । आवतते इति आवर्तमानः, तम् आवर्तमानम् । पक्ष्मणां पत्ति: १क्ष्मपत्तिः, निमेषेष अलसा पक्ष्मपङ्क्तिः यस्याः सा निमेषालमपक्ष्मण्क्तिः ।
अमि०-यथा कश्चिद् कृतोपवासः, अतितृष्णया मुहुः जलं पीत्वापि तृप्ति नाधिगच्छति तथैव सुदक्षिणा वनात प्रत्यागच्छन्तं राजानं दिलीपमतितृष्णया नेत्राभ्यां निनिमेषाभ्यां ददर्श ।
हिन्दी-महर्षि वशिष्ठजी को धेनु के सेवक, वन से लौटते हुए राजा दिलीप को उनकी पत्नी मुदक्षिणा ने प्यासे की तरह एकटक नेत्रों से इस प्रकार देखा जिसमें पलकें भी न झपकने पाये ॥१६॥
पुरस्कृता वर्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥ २० ॥ सब्जीविनी-वर्त्मनि पाथिवेन पृथिव्या ईश्वरेण । "तस्येश्वरः" इत्यम्प्रत्ययः । पुरस्कृताग्रतः कृता धर्मस्य पत्नी धर्मपत्नीं। धर्मार्थ पत्नीत्यर्थः। अश्वघासादिवत्तादथ्य षष्ठीसमासः । पार्थिवस्य धर्मपत्न्या प्रत्युद्गता सा धेनु स्तदन्तरे तयोर्दम्पत्योमध्ये । दिनक्षपयोदिनरात्योर्मध्यगता संध्येव रराज ॥२०॥
अन्वयः-वर्मनि, पार्थिवेन, पुरस्कृता, पाथिवधर्मपत्न्या, प्रत्युद्गता, सा, धेनुः, तदन्तरे, दिनक्षपामध्यगता, सन्ध्या, इव विरराज ।
वाच्य--पुरस्कृतया, प्रत्युद्गतया, तया, धेन्वा, सन्ध्यया, इव, विरेजे।
व्याख्या-वर्त्मनि = मागें। पृथिव्याः ईश्वरः पार्थिवस्तेन, पार्थिवेन =राशा दिलीपेन । पुरस्कृता=अग्रतः कृता । पाथिवस्य = दिलीपस्य, धर्मपत्नी = मुदक्षिणा, ति, पाकिंवधर्मपत्नी, तया, प्रत्युद्गता = अभ्युदगता ( स्वागतार्थामति भावः सा धेनुः = नन्दिनी। तयोः= सुदक्षिणादिलीपयोः, अन्तरे = मध्ये, स्थिता, दिनं = दिवसश्च, क्षपा=रात्रिश्चेति दिनक्षपे, तयामामति दिनक्षपामध्यम् , दिनक्षपामध्यं गता = प्राप्ता, तथोक्ता, सन्ध्या सार्यकालः, इव = यथा, विरराज = शुशुमे।
समा०-पृथिव्याः ईश्वरः पार्थिवः, तेन पाथिवेन । धर्मस्य पत्नी धर्मपत्नी, पाथिवस्य धर्मपत्नी, पाथिवधर्मपत्नी, तया पाथिवधर्मपन्या । तयोः अन्तरं तदन्तरम् , तस्मिन् तदन्तरे। दिनञ्च क्षपा च दिनक्षपे, तयोर्मध्यङ्गता दिनक्षपामध्यगता।