________________
व्याख्यातुः परिचयः मण्डले मयराष्ट्राख्ये वर्तमाने तु 'मेरठे'। 'वारणावत' सान्निध्ये 'दाहा' ग्राम: पुरातनः ॥१॥ तत्र द्विजकुलतिलकः सीतारामः स वत्सवंशमणिः । तत्तनयो विदितनयो नाम्ना श्रीशिवसहाय इति ॥२॥ वेदादिशास्त्रवेदी समजनि जनवृन्दमाननीयगुणः । तस्मादुदितः कुशल: शंकरदत्तः सतां मान्यः ॥३॥ तत्पुत्रः शास्त्ररुचि र्धारादत्ताऽभिधो विदितः । श्रीबालबोधमिश्रात् काशीनाथाच्च लब्धविद्योऽभूत् ॥४॥ साहित्यवेदान्तकृतप्रयत्नः काश्यामथाचार्यपदांकितः सन् । अध्यापने सस्पृहमानसोऽयं वृत्यर्थमन्वेषणतत्परोऽभूत् ॥५॥ गिरिजापतिगतचित्तः परोपकृतिसक्तमानसो नित्यम् । प्रथितभिवानीजन्मा तुहिनगिरौ 'कुर्सियाङ्गे' बद्धरुचिः ॥६॥ गोयनकावंशाम्बुधिचन्द्रः श्रीलालनामविख्यातः । तत्पत्नी धर्मपरा प्रथिता सरवत्यभिख्यया लोके ॥७॥ पुत्रस्तयोश्च जातो भक्तः शास्त्रेषु कृष्णगोपालः । तेषामनुरोधवशात्काश्यां विद्यालये चिरं विमले ॥८॥ स्थिरकर्मात्र तदीये धारादत्तो वसामि शास्त्रपरः । छात्रोपकारहेतोरध्ययनाध्यापनादिकं तन्वम् ॥९॥ विश्वनाथसहितः पुत्रोऽन्यश्वाश्विनीपदभाक् । कृष्णाम सुते व तेषामुपलालनं रचयन् ॥१०॥ श्रीकालिदासविरचितरघुवंशाख्यप्रसिद्धकाव्यस्य । व्याख्यामरचयमेतां तया प्रसन्नोऽस्तु शैलजाकान्तः ॥११॥