________________
एकोनविंशः सर्गः
चन्द्र वाला आकाश हो। और जैसा कि मात्र कीचड़ जिसमें रह गया है ऐसा ग्रीष्मऋतु का छोटा सा तालाब हो । तथा जरासी ( हल्की सी ) लौ वाला दीपक हो ॥५१॥
बाढमेष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने ।
इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजा ॥ ५२ ॥ बाढं सत्यमेष पार्थिवो दिवसेषु पुत्रजन्मने पुत्रोदयार्थ कर्म जपादिकं साधयति । इत्येवमदर्शितरुजो निगूहितरोगाः सन्तोऽस्य राज्ञो मन्त्रिणोऽवशकिनीर्व्यसनशङ्किनीः प्रजाः शश्वदूचुः ॥
अन्वयः–बाढम् एषः पार्थिवः दिवसेषु पुत्रजन्मने कर्म साधयति, इति अदर्शितरुजः सन्तः अस्य मंत्रिणः अघशंकिनीः प्रजाः शश्वत् ऊचुः । ___ व्याख्या-उह्यतेस्म इति बाढं = दृढं-सत्यमित्यर्थः एषः = अयं पार्थिवः राजाग्निवर्णः दिवसेषु = एषु दिनेषु पुन्नाम्नो नरकात् त्रायते यस्मात् ततः पुत्रः, पुत्रस्य = सुतस्य जन्म = उत्पत्तिरिति पुत्रजन्म तस्मै पुत्रजन्मने-पुत्रोत्पादनार्थ कर्म =अनुष्ठानं = जपादिकं साधयति = सन्तः अस्य = राज्ञः करोति, इति = एवं प्रकारेण अदर्शिता= अप्रकटिता रुक् रोगः = महाव्याधिः यैस्ते अदर्शितरुजः मंत्रिणः = सचिवाः, अङ्घते = गच्छति दानादिना यत् तत् । अध्यते वा अवम् अघ = पापं क्षयरोगमित्यर्थः शंकन्ते तच्छीलाः, इति अधशंकिन्यस्ताः अपशंकिनीः प्रजाः=जनान् शश्वत् = अभीक्ष्णं = वारं वारम् ऊचुः = कथयन्ति स्म ।
समास-पुत्रस्य जन्म पुत्रजन्म तस्मै पुत्रजन्मने । अदर्शिता रुग् यैस्ते अदर्शितरुजः । अघं शङ्कन्ते इति अधशंकिन्यस्ताः अघशंकिनीः । __हिन्दी-यह सत्य है कि आजकल राजा अग्निवर्ण पुत्र की उत्पत्ति की इच्छा से अनुष्ठान जपादि कर रहा है। (इसलिये दुबला हो गया है)। यह कह कर रोग को न प्रकट कर मन्त्री लोग राजा के भयंकर रोग की आशंका करने वाली प्रजा को बार बार समझाते थे ॥ ५२ ॥
स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् ।
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात् ॥ ५३ ॥ ___ स त्वग्निवर्णोऽनेकवनितासखः सन्नपि । पावनी पित्रर्णमोचनी संततिमनवलोक्य । पुत्रमनवाप्येत्यर्थः । वैद्ययनपरिभाविनं गदं रोगम् । प्रदीपो वायुमिव । नात्यगान्नातिचक्राम । ममारेत्यर्थः ।
अन्वयः-सः तु अनेकवनितासखः सन् अपि पावनी सन्ततिम् अनवलोक्य, वैद्ययनपरिभाविनं गदं प्रदीपः वायुम् इव न अत्यगात् ।
व्याख्या-सः= अग्निवर्णस्तु अनेकाः =भूयस्यश्च ताः वनिताः = स्त्रियः इति अनेकवनितास्तासां सखा = मित्रमिति अनेकवनितासखः = बहुपत्नीकः सन्नपि पाव्यतेऽनया पावनी तां पावनी =पित्रर्णमोचनीं सन्तति = पुत्रम् अनवलोक्य = अनवाप्य वैद्यानां = चिकित्सकानां यत्नं = प्रयासं, परिभवति = तिरस्करोतीति वैद्ययनपरिभावी तं वैद्ययनपरिभाविनं गदं =क्षयरोगं प्रदीपः = दीपकः वायु =वातम् इव = यथा न = नहि अत्यगात् = अतिचक्राम। मृतः इत्यर्थः ।