________________
रघुवंशे
समासः-वितानः सहितानि सवितानानि, सवितानानि यानि, हाणि इति सवितानहाणि तेषां भाक् इति सवितानहर्म्यभाक् । ललिताश्च ता अङ्गनाः ललितांगनास्तासां सखा, इति ललितांगनासखः। सुर तस्य श्रमः सुरतश्रमः तस्य अपहा तां सु रतश्रमापहां, मेधैः मुक्ता मेघमुक्ता चासौ विशदा च तां मेघमुक्तविशदाम् ।
हिन्दी-कार्तिक मास की रातों ( शरद ऋतु ) में शामियाना लगे ( टॅगे ) हुए राजमहल की छतों पर रहने वाला तथा सुन्दर रमणियों के साथ वह राजा अग्निवर्ण, सम्भोग की थकावट को दूर करनेवाली और मेघों के हट जाने से साफ स्वच्छ निर्मल, चाँदनी का आनन्द लेता था ॥ ३९ ॥
सैकतं च सरयूं विवृण्वती श्रोणिबिम्बमिव हंसमेखलम् ।।
स्वप्रियाविलसितानुकारिणीं सौधजालविवरैय॑लोकयत् ॥ ४० ॥ किंच । हंसा एव मेखला यस्य तत्सैकतं पुलिनं श्रोणिबिम्बमिव। विवृण्वतीम् । अत एव स्वप्रियाविलसितान्यनुकरोतीति तद्विधां सरयूम्। सौधस्य जालानि गवाक्षाः त एव विवराणि तैर्व्यलोकयत् ॥
अन्वयः-हंसमेखलं सैकतं श्रोणिबिम्बम् इव विवृण्वतीम् 'अत एव' स्वप्रियाविलसिता. नुकारिणी सरयूं सौधजालविवरैः व्यलोकयत् ।
व्याख्या-हंसाः=मानसौकसः एव मेखला=काञ्चीगुणः यस्य तत् हंसमेखलम् । सिकताः सन्त्यस्मिन्निति सैकतं =सिकतामयं पुलिनं श्रोणेः = कटेः बिम्बः= मण्डलमिति श्रोणिबिम्बस्तं श्रोणिबिम्बम् = नितम्बमण्डलम् इव = यथा विवृण्वतीं = प्रकटयन्तीम् , अत एव स्वस्य राज्ञः प्रियाः = सुन्दर्यः, इति स्वप्रियास्तासां विलसितानि = विभ्रमाः, इति स्वप्रियाविलसितानि, तान्यनुकरोति =विडम्बयतीति तां स्वप्रियविलासितानुकारिणीम् सरयूं =नदी सुधालेपोऽस्ति यस्य स सौधः सौधस्य = राजभवनस्य जालानि = गवाक्षा एव विवराणि=छिद्राणि इति सौधजालविवराणि तैः सौधजालविवरैः व्यलोकयत् = ददर्श ।
समासः-हंसा एव मेखला यस्य तत् हंसमेखलम् । श्रोणेः बिम्बः श्रोणिबिम्बस्तं श्रोणिबिम्बम् । स्वस्य प्रियाः स्वप्रियास्तासां विलसितानि, तेषाम् अनुकारिणी तां स्वप्रियाविलसितानुकारिणीम् । सौधस्य जालानि, तेषां विवराणि तैः सौधजालविवरैः।
हिन्दी-'और शरद ऋतु में ही' हंसों की पंक्तिरूपी मेखला ( तगड़ी ) वाले तट ( किनारे ) को 'नायिका के' नितम्बमण्डल के समान नग्न दिखाती हुई इसी लिये, राजा की सुन्दरियों का अनुकरण करने वाली सरयू नदी को, राजमहल के झरोखें ( खिड़की ) से राजा देखा करता था ॥ ४० ॥
मर्मरैरगुरुधूपगन्धिमिळक्तहेमरशनैस्तमेकतः । जहुराग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः ॥ ४१ ॥