________________
४८८
रघुवंशे
इतः प्रभृति कृत्रिमाद्रिषु विरचितविहारप्रकारमाह
=
अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः ।
प्रावृषि प्रमदबहिंणेष्वभूत्कृत्रिमाद्विषु विहारविभ्रमः ॥ ३७ ॥
प्रावृष्यं सलम्बिन्यः कुटजानामर्जुनानां ककुभानां च स्रजो यस्य तस्य । नीपानां कदम्बकुसुमानां रजसाङ्गरागिणोऽङ्गरागवतस्तस्याग्निवर्णस्य प्रमदबहिणेषून्मत्तमयूरेषु कृत्रिमाद्रिषु विहार एक विभ्रमो विलासोऽभूदभवत् ।
अन्वयः—प्रावृषि अंसलम्बिकुटजार्जुनस्रजः नीपरजसांगरागिणः तस्य प्रमदबर्हिणेषु कृत्रि - माद्रिषु विहारविभ्रमः अभूत् ।
व्याख्या–वर्षणं वृट्, प्रकृष्टा वृट् अत्र सा प्रावृट् तस्यां प्रावृषि = वर्षासु कूटे = शृंगे जायन्ते स्म कुटजाः । अंसे = स्कन्धे लम्बिन्यः = लम्बमानाः कुटजानां = गिरिमल्लिकानाम् अर्जुनानां = ककुभानां च स्रजः = मालाः यस्य स तस्य अंसलम्बिकुटजार्जुनस्रजः नयन्ति, नीयन्ते वा नीपाः पप्रत्ययः, बाहुलकात् गुणाभावः । नीपानां = कदम्बानां रजः = - परागस्तेन नीपरजसा अङ्गस्य = शरीरस्य रागः = वर्णकः इति अङ्गरागः, सोऽस्यास्तीति अङ्गरागी तस् अङ्गरागिणः = अङ्गरागवतः तस्य = अग्निवर्णस्य प्रमदाः = उन्मदाः उन्मत्ताः बहिणाः = मयूराः येषु ते तेषु प्रमदबर्हिणेषु, उन्मत्तमयूरवत्सु कृत्रिमाः = क्रियया निर्वृत्ताः = निर्मिताः च ते अद्रयः = पर्वताः तेषु कृत्रिमाद्रिषु विहरणं विहारः । विहार एव विभ्रमः = विलासः इति विहारविभ्रमः अभूत् = जातः ।
समासः– कुटजानाम्—अर्जुनानां च स्रजः इति कुटजार्जुनस्रजः, अंसे लम्बिन्यः कुटजार्जुनस्रजो यस्य स तस्य अंसलम्बिकुटजार्जुनस्रजः । नीपानां रजः नीपरजस्तेन नीपरजसा । अङ्गस्य रागः अङ्गरागः सोऽस्यास्तीति अङ्गरागो तस्य अङ्गरागिणः । प्रमदाः बर्हिणा येषु ते तेषु प्रमदबर्हिणेषु । कृत्रिमाश्च ते अद्रयस्तेषु कृत्रिमाद्रिषु । विहार एव विभ्रमः विहारविभ्रमः ।
1
तथा
हिन्दी - वर्षा ऋतु में कुरैया और अर्जुन के फूलों की माला कन्धे पर लटकाए हुए, कदम्ब के फूल की पराग ( पाउडर ) का अङ्गराग लगाए हुए, उस राजा अग्निवर्ण का उन बनावटी पर्वतों पर ( क्रीडा पर्वतों पर ) विहार होता था, जिन पर मतवाले मोर भरे हैं ॥ ३७ ॥
विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे ।
आचकांक्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥ ३८ ॥
प्रावृषीत्यनुषज्यते। सोऽग्निवर्णो विग्रहात्प्रणयकलहाच्छयने पराङ्मुखोरबला अनुनेतुं न तत्वरे त्वरितवान् । किंतु घनशब्देन धनगजितेन विक्लवाश्चकिता अत एव विवृत्य स्वयमेवाभिमुखीभूय भुजान्तरं विंशती: प्रविशन्तीः | 'आच्छीनद्योर्नुम्' इति नुम्विकल्पः । अबला आकांक्ष स्वयंग्रहादेव सांमुख्यमैच्छदित्यर्थः ॥
अन्वयः - 'प्रावृषि' सः विग्रहात् शयने पराङ्मुखीः अबलाः अनुनेतुं न तत्त्वरे । किन्तु घनशब्दविक्लवाः विवृत्य भुजान्तरं विशतीः ताः आचकांक्ष ।