________________
एकोनविंशः सर्गः
४७९ ताभिः = म्लानाभिः, इतस्ततः पतिताभिर्वा स्रग्भिः = पुष्पमालाभिः आकुलं = व्याप्तमिति लुलितस्रगाकुलम् , करिपदनामकासने, इत्यर्थः। छिन्ना= त्रुटिता मेखला= काञ्चीगुणः यस्मिन् तत् छिन्नमेखलम् , हरिविक्रमनामकासने इत्यर्थः, अलक्तः एव अलक्तकः अलक्तकेन = लाक्षारागेण अंकितं = शोभितमिति अलक्तकांकितम् , धैनुकासने नायिकायाः अधोमुखीत्वादित्यर्थः । एवंभूतं शयनीयं कर्तृपदमिदम् , उत्थितस्य = शुयनादुत्थितस्येत्यर्थः । विलासिनः = विलसनशीलस्य तस्य =राज्ञोऽग्निवर्णस्य विभ्रमस्य = लीलायाः रतानि-सुरतानि, इति विभ्रमरतानि तानि विभ्रमरतानि सम्भोगस्य आसनविशेषानित्यर्थः । अपावृणोत् = प्रकटीचकार । प्रातःकाले शय्यावलोकनेनेदं स्पष्टं जातं यदनेन एभिरासनैः संम्भोगः कृत इत्यर्थः । ___ समासः-चूर्णैः बभ्रु चूर्णबभ्रु । लुलिताश्च ताः स्रजः लुलितस्रजस्ताभिः आकुलमिति तत् लुलितस्रगाकुलम् । छिन्ना मेखला यस्मिन् तत् छिन्नमेखलम्। अलक्तकेन अंकितमिति अलक्तकांकितम् । विभ्रमस्य रतानि, तानि विभ्रमरतानि ।
हिन्दी-प्रातःकाल, राजा अग्निवर्ण जब सोकर उठता था, तो वह पलंग, ( कर्ता) शौकीन राजा अग्निवर्ण के सम्भोग के 'कामशास्त्रोक्त' उन आसनों को साफ-साफ प्रकट कर देता था, जो कि व्यानत नामक बन्ध से रत के कारण केसरादि के चूर्ण से पीला हुआ रहता था। और जिस पर करिपदासन से रति करने के कारण टूटी मसली ( म्लान ) माला पड़ी रहती थी। तथा हरिविक्रम आसन से जिस पर करधनी टूटी पड़ी रहती थी। और धैनुक आसन से सम्भोग के कारण महावर से शोभित, पैर के निशान रहते थे।
विशेष–महाकवि ने इस पद्य में सम्भोग के व्यानत १ करिपद २ हरिविक्रम ३ धैनुक ४ इन चार आसनों से सम्भोग का वर्णन किया है ॥ २५ ॥
स स्वयं चरणरागमादधै योषितां न च तथा समाहितः ।
लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैनितम्बिभिः ॥ २६ ॥ सोऽग्निवर्णः स्वयमेव योषितां चरणयो रागं लाक्षारसमादधेऽर्पयामास। किंच । श्लथांशुकैः प्रियाङ्गस्पर्शादिति भावः । नितम्बिभिनितम्बवद्भिर्मेखलागुणपदैर्जघनैः। 'पश्चान्नितम्बः स्त्रीकटयाः लोबे तु जवनं पुरः' इत्यमरः । लोभ्यमाननयन आकृष्यमाणदृष्टिः सन् । तथा समाहितोऽवहितो नादधे यथा सम्यग्रागरचना स्यादिति भावः ॥
अन्वयः-सः स्वयं योषितां चरणरागम् आदधे, श्लथांशुकैः नितम्बिभिः मेखलागुणपदैः लोभ्यमाननयनः सन् तथा समाहितः च न आदधे ।
व्याख्या-सः =राजा अग्निवर्णः स्वयं = स्वेनैव योषितां = स्त्रीणां चरणयोः पादयोः रागः= लाक्षारसः इति चरणरागस्तं चरणरागम् आदधे = अर्पयामास, स्वहस्तेनैव लाक्षारसेन तच्चरणौ रंजितवानित्यर्थः । किञ्च श्लथानि = शिथिलानि-प्रियांगस्पर्शात्-स्वस्थानात् स्रस्तानीत्यर्थः, अंशुकानि= वस्त्राणि येभ्यस्तानि तैः श्लथांशुकैः नितम्बाः स्त्रीकट्याः पृष्ठभागाः सन्ति