________________
रघुवंशे
प्रियासखः सोऽग्निवर्णो घ्राणकान्तेन घ्राणतर्पणेन मधुगन्धेन कर्षिणीर्मनोहारिणीः । रच्यन्त इति रचनाः । पानभूमय एव रचनाः । रचिताः पानभूमय इत्यर्थः । वासितासखः करिणीसह - चरः । 'वासिता स्त्रीकरिण्योश्च' इत्यमरः । द्विपः पुष्पिताः कमलिनीरिव अभ्यपद्यताभिगतः ।।
४६८
अन्वयः—प्रियासखः सः प्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः वासितासखः द्विपः पुष्पिताः कमलिनीः इव अभ्यपद्यत ।
=
व्याख्या - प्रीणन्तीति प्रियाः, प्रियाणां = सुन्दरीणां सखा = सुहृदिति प्रियासखः सः = अग्निवर्णः घ्राणाय = घ्राणेन्द्रियाय, कान्तः = तर्पणः सुखकर इत्यर्थः यः मधुगन्ध: - मधुरसुरभि - स्वेन कर्षिण्यः = मनोहारिण्यः ताः घ्राणकान्तमधुगन्धकर्षिणीः । रच्यन्ते इति रचनाः, पानस्य = सुरापानस्य भूमयः=शालाः एव रचनाः = निर्माणानि संरचनाः इति पानभूमि रचनास्ता पान - भूमिरचनाः, वासयति = निवासयति, सेवां करोतीति वा वासिता । वासितायाः = करिण्याः सखा इति वासितासखः = हस्तिनीसहचरः द्वाभ्यां = मुखशुण्डाभ्यां पिबतीति द्विपः = हस्ती पुष्पाणि सञ्जातानि यासां ताः पुष्पिताः = कुसुमिताः कमलिनीः इव यथा अभ्यपद्यत = अभ्यगमत् अभिगत इत्यर्थः ।
समासः - प्रियाणां सखा इति प्रियासखः । घ्राणाय कान्तः प्राणकान्तस्तेन मधुगन्धस्तेन कर्षिण्यस्ताः घ्राणकान्तमधुगन्धकर्षिणीः । पानस्य भूमयः पानभूमयस्ताः एव रचनास्ताः पानभूमिरचनाः । वासितानां सखा इति वासितासखः ।
हिन्दी- राजा अग्निवर्ण नासिका को तृप्त करने वाली मधुर सुगन्धी से अपनी ओर खींचने वाली सुन्दर बनी मधुपानशाला में सुन्दरियों के साथ उसी प्रकार प्रविष्ट हुआ, जिस प्रकार खिले फूल वाली कमलिनी वाले तालाब में हथिनियों के साथ हाथी घुस जाता है ॥११॥
सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः ।
ताभिरप्युपहृतं मुखासवं सोऽपिबद् बकुलतुल्य दोहदः ॥ १२ ॥
अङ्गना रहो रहसि सातिरेकस्य सातिशयस्य मदस्य कारणं तेनाग्निवर्णेन दत्तं मुखासत्रम - भिलेषुः। बकुलेन तुल्यदोहदस्तुल्याभिलाषः । 'अथ दोहदम् । इच्छा काङ्क्षा स्पृहा तृट्' इत्यमरः । बकुलद्रुमस्याङ्गनामद्यार्थित्वात्तुल्याभिलाषत्वम् । सोऽपि ताभिरङ्गनाभिरुपहतं दत्तं मुखासमपिबत् ॥
श्वन्वयः —अंगनाः रहः सातिरेकमदकारणं तेन दत्तं मुखासवम् अभिलेषुः, बकुलतुल्यदोहदः सः अपि ताभिः उपहृतम् मुखासवम् अपिबत् ।
व्याख्या - अंगनाः = सुन्दर्यः रह्यते, रमन्तेऽत्र वा रहः = एकान्ते अतिरेकेण सहितः सातिरेकः = सातिशयश्चासौ मदः = उन्मादः इति सातिरेकमदस्तस्य कारणमिति सातिरेकमदकारणं तत् । तेन = राज्ञा अग्निवर्णेन दत्तं = प्रदत्तं मद्यं = मैरेयम् अभिलेषुः = अभिलषितवत्यः । दोहम् = आकर्षं ददातीति दोहदम् । बकुलस्य = केसरस्य तुल्यं = समानं दोहदम् = अभिलाषः यस्य स बकुलदोहदः सः = राजा अग्निवर्णः ताभिः = अंगनाभिः उपहृतं = दत्तम् आसूयते