________________
४६६
रघुवंशे
इति आत्मनखरागः, कोमल:= मृदुलः य आत्मनखरागः तेन रूषितं = मण्डितम् अलंकृतमित्यर्थः, इति कोमलात्मनखरागरूषितम् । अत एव दिवा करोतीति दिवाकरः । नवः= नूतनः प्रातःकालिकः इत्यर्थः। यः दिवाकरः = सूर्यस्तरय आतपः = प्रकाशः, तेज इत्यर्थः। तेन स्पृष्टं = व्याप्तं यत् पंकजं कमलं तस्य तुला =साम्यमिति नवदिवाकरातपस्पृष्टपंकजतुला तस्याः अधिरोहणं = प्रापणमिति नवदिवाकरातपस्पृष्टपंकजतुलाधिरोहणं तं = चरणं = पादमनुजीवन्तीति अनुजीविनः = अनुयायिनः कृता = विहिता प्रणतिः = नमस्कारो यैस्ते कृतप्रणतयः सन्तः भेजिरे =सेवितवन्तः। __ समासः-कृता प्रणतिः यस्ते कृतप्रणतयः। आत्मनः नखास्तेषां रागः इति आत्मनखरागः, कोमलश्चासौ आत्मनखराग इति कोमलात्मनखरागस्तेन रूषितस्तं कोमलात्मनखरागरूषितम् । नवः यः दिवाकरः इति नवदिवाकरस्तस्य आतपस्तेन स्पृष्टं यत् पंकजमिति नवदिवाकरातपस्पृष्टपंकजं तस्य तुलामधिरोहतीति नवदिवाकरातपस्पृष्टपंकजतुलाधिरोहणम् , तम् ।
हिन्दी-राज्य के कर्मचारी, राजा अग्निवर्ण के नखों के लाल रंग से सुशोभित ( मिला, भीगा हुआ ) उस चरण को प्रणाम करके सेवा करते थे, जो चरण प्रातः कालीन सूर्य के लाल लाल तेज (प्रकाश ) भरे कमल के समान सुन्दर था ॥ ८॥
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः ।
गूढमोहनगृहास्तदम्बुमिः स व्यगाहत विगाढमन्मथः ॥ ९ ॥ विगाढमन्मथः प्रौढमदनः सोऽग्निवों यौवनेन हेतुनोन्नतानां विलासिनीस्तनानां क्षोभेणाघातेन लोलानि चञ्चलानि कमलानि यासां ताः। तदम्बुभिस्तासां दीपिकाणामम्बुभिगूढान्यन्तरितानि मोहनगृहाणि सुरतभवनानि यासु ताश्च दीर्घिका व्यगाहत । स्त्रीभिः सह दीर्घिकासु विजहारेत्यर्थः॥ __ अन्वयः-विगाढमन्मथः सः यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाः, तदम्बुभिः गूढमोहनगृहाः दीर्घिकाः व्यगाहत ।
व्याख्या-मननं मत् चेतना, मथतीति मथः, मतः मथः मन्मथः विशेषेण गाढः = प्रगाढः, अत्यधिकः मन्मथः कामः यस्य सः विगाढमन्मथः। सः = अग्निवर्णः विलासिनीनां = कामिनीनां स्तनाः=कुचाः इति विलासिनीस्तनाः, यौवनेन = तारुण्येन उन्नताः = उदग्रा इति यौवनोन्नताः, यौवनोन्नताश्च ते विलासिनीस्तनाः, इति यौवनोन्नतविलासिनीस्तनाः तेषां क्षोभः= सञ्चलनम्-आघातस्तेन लोलानि = चञ्चलानि कमलानि पद्मानि यासां ताः यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाः, तासां =दीर्घिकाणाम् अम्बूनि = जलानि तैः, तदम्बुभिः गूढानि = गुप्तानि, अन्तरितानि मोहनस्य = सुरतस्य गृहाणि = भवनानि यासु ताः गूढमोहनगृहाः दीर्घिकाः = वापीः व्यगाहत = व्यलोडयत् । कामिनोभिः सह वापीषु जलक्रीडां कृतवानित्यर्थः ।
समासः-विगाढः मन्मथो यस्य स विगाढमन्मथः । यौवनेन उन्नता विलासिनीनां ये स्तनाः तेषां क्षोभस्तेन लोलानि कमलानि यासां ताः यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाः, ताः।