________________
अष्टादशः सर्गः
४५३
पटियों पर ) लम्बे-लम्बे बाल लटक रहे थे । अर्थात् बालक होने पर भी इसकी आज्ञा का सभी पालन करते थे॥ ४३॥
निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः ।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥ ४४ ॥ . निवृत्ता जम्बूनदपट्टशोभा यस्य तस्मिन्कृतकनकपट्टशोमे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः स्मितमुखः स राजारिसुन्दरीणां मुखानि तेनैव तिलकेनैव शून्यानि चकार । अखिलमपि शत्रुवर्गमवधीदिति भावः ॥
अन्वयः--निवृत्तजाम्बूनदपट्टशोभे ललाटे न्यस्तं तिलकं दधानः, स्मेरमुखः सः अरिसुन्दरीणां मुखानि तेन एव शून्यानि चकार । . व्याख्या-जम्बूरसस्य नद्यां भवं जाम्बूनदं, जाम्बूनदस्य = सुवर्णस्य पट्ट = किरीट, तस्य शोभा = कान्तिः इति जाम्बूनदपट्टशोभा, निवृत्ता= सम्पन्ना-कृता जाम्बूनदपट्टशोभा यस्य स तस्मिन् निवृत्तजाम्बूनदपट्टशोभे ललं = विलासमीप्सां वा अटतीति ललाटं तस्मिन् ललाटे =भाले न्यस्तं = विहितं-कृतमित्यर्थः । तिलकं = विशेषकं दधानः=धारयन् स्मेरं = विकसितम् = ईषद्धास्यान्वितमित्यर्थः। मुखम् = आननं यस्य स स्मेरमुखः सः राजा सुदर्शनः अरीणां = शत्रूणां सुन्दर्यः = कामिन्यस्तासाम् अरिसुन्दरीणां मुखानि = आननानि तेन = तिलकेन एव शून्यानि = रहितानि चकार = कृतवान् । सर्वानपि शत्रून् स हतवानित्यर्थः ।
समासः-जाम्बूनदस्य पट्टमिति जाम्बूनदपढें तस्य शोभा इति जाम्बूनदपट्टशोभा, निवृत्ता जाम्बूनदपट्टशोभा यस्य तत्तस्मिन् निवृत्तजाम्बूनदपट्टशोमे। अरीणां सुन्दर्यस्तासाम् अरिसुन्दरीणाम् । स्मेरं मुखं यस्य स स्मेरमुखः ।
हिन्दी-सोने के पट्ट ( मुकुट ) से जिसकी शोभा की गई थी, ऐसे मस्तक पर लगे तिलक को धारण किये हुए तथा हंसमुख उस राजा सुदर्शन ने शत्रुओं की स्त्रियों के मुखों को तिलक मुस्कुराहट से शून्य कर दिया। अर्थात् युद्ध में शत्रुओं को मार कर उनकी स्त्रियों के तिलक एवं हँसना छुड़ा दिया ॥ ४४ ॥
शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि भूषणेन ।
नितान्तगुर्वीमपि सोऽनुभावाधुरं धरिया बिभरांबभूव ॥ ४५ ॥ शिरीषपुष्पाधिकसौकुमार्यः कोमलाङ्ग इत्यर्थः । अत एव स राजा भूषणेनापि खेदं श्रमं यायाद्गच्छेत् । एवंभूतः स नितान्तगुर्वोमपि धरित्र्या धुरं भुवो भारमनुभावात्सामर्थ्याद्विभरांबभूब बभार । 'भीहीभृहुवां श्लुवच्च' इति विकल्पादाम्प्रत्ययः ॥
अन्वयः-शिरीषपुष्पाधिकसौकुमार्यः सः भूषणेन अपि खेदं यायात्। सः नितान्तगुर्वीम् अपि धरित्र्याः धुरम् अनुभावात् बिभराम्बभूव ।। ___व्याख्या-सुष्टु कुमार्यते, काम्यते वा इति सुकुमारं = कोमलं, तस्य भावः सौकुमार्यम् । शिरीषस्य =भण्डिलस्य पुष्पाणि = कुसुमानि. इति शिरीषपुष्पाणि, तेभ्यः अधिकं सौकुमार्य यस्य